________________
२४६६
व्याघ्रपादस्मृतिः मुक्ताङ्गुष्ठकनिष्ठाभ्यां त्रिः पिबेत् ब्रह्मतीर्थतः । स्नात्वा पीत्वा क्षुते सुप्त भुक्त्वा रथ्याप्रसर्पणे ।।१।। आचान्तः पुनराचामेद् वासोऽपिपरिधाय च । ऊर्ध्वजानुस्तु नाचामेदेकपाण्याहतेन च ॥५२।। तथैव ब्रह्महरतेन नापरिज्ञातहस्ततः । आपः स्पर्शनकाले तु तर्जन्यां तु स्पृशेजलम् ॥ तजलं च पिबेद्विप्रः सोमपानसमं भवेत् ।।३।। आपः करनखैः स्पृष्ट्वा तेनाचामति यो द्विजः । सुरां पिबति वै व्यक्त व्याघ्रस्य वचनं यथा ॥४॥ पीतोच्छिष्ट पादशौचं शौचशेषं तु यजलम् । तज्जलं तु सुरातुल्यं पर्यग्निकरणं विना ।।५।। कांस्येनायसपात्रेण पुसीसकपित्तलैः । . आचान्तः शतकृत्वोपि न कदाचन शुध्यति ॥५६।। कटिमंडलमावृत्य नाभ्यन्तर्दक्षिणोत्तरे । कच्छं द्वादशपिंजूलं पुरापश्चात्प्रयुज्यते ॥५७|| एकराशिगतौ स्यातां यदा गुरुनिशाकरौ । सा पौर्णमासी महती सर्वपापहरा स्मृता ।।८।। आब्दिके समनुप्राप्त आशौचं यदि जायते । आशौचे तु व्यतिक्रान्ते तत्र श्राद्धं प्रदीयते ॥५६॥ अनपत्या च या नारी भर्तृपिंडेन योजयेत् । यदि जीवति भर्तारं श्वश्रेयादिभिर्योजयेत् ॥६०।।