________________
२४६४ . व्याघ्रपादस्मृतिः
देवानम्यर्च्यगंधेन त्रिपुंडू पापनाशनम् । तिलकेन विना श्राद्धं तत्सवं निष्फलं भवेत् ॥३॥ "तिलकेन विना सन्ध्या तिलकेन विना जपः।" . अंगवंगकलिङ्गाश्च तैलङ्गा द्राविडास्तथा । सदा शून्यमुखा ज्ञेया देशधर्मानुसारतः ॥३२॥ अन्ये च बहवोधर्मा देशेदेशे व्यवस्थिताः । ते ते धर्माः सदाकार्या व्याघ्रस्य वचनं यथा ॥३३।। श्राद्धकाले तथा दाने होमे देवार्चने तथा । विधिवत्तिलकं कुर्यान्मृदा वा चन्दनेन वा ॥३४|| धारयेदूर्ध्वपुंडू तु स्नानान्ते च विशेषतः । तर्पणे होमकाले च सायं प्रातः समाहितः ॥३।। तिर्यक् न कुर्वीत यावद्धोमं समाचरेत् । शिलागन्धानुलेपेन मार्जारोच्छिष्टभोजनात् ॥३६।। स्वरूपदर्शनादप्सु भाग्यहीनोभवेन्नरः । शुभ्र वृतं विप्रैस्तु क्षयार्थे कुरुवीक्षणम् ॥३७॥ ललाटै यैः कृतं नित्यं मृदाचन्दनभस्मना। धारयेदूधपुडूं तु स्नानान्ते च विशेषतः ।।३।। गृहानागत्य होमांते भस्मना च त्रिपुण्डकम् । स्नात्वापुण्डं मृदा कुयात् होमं कृत्वा तु भस्मना ॥३६।। "देवानभ्यर्च्य गंधेन त्रिपुडं पापनाशनम् ।।" आशौचेपि न चाभ्यङ्ग विवाहे चन्दनादिना । ऊर्ध्वपुंडू सदाकार्य श्रौते स्मार्ते च कमणि ॥४०॥