________________
आचारधर्मवर्णनं श्राद्धवर्णनञ्च २४६३ निषिद्ध ऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम् । तिथितीथं विशेषे तु कार्य प्रेते च सर्वदा ॥२०॥ देवानृषी पितॄश्चैव तर्पयेत्तु प्रयत्नतः । आचम्य मार्जनं कुर्यात्ततः प्राणान्समापयेत् ।।२।। अग्रजन्मगृहे प्राप्त श्राद्धं सतिलकं भवेत् । तिलकेनविनाकार्य पितृकर्म निरर्थकम् ॥२२॥ अग्रजन्मैः सदाकायं श्राद्धं सतिलकं तथा। श्रौतस्मार्तानि कर्माणि तिलकेन समाचरेत् ।।२३।। मृत्तिका गोशकृत् दर्भा उपवीतोत्तरीयकम् । दद्याद्विप्रत्वमाप्नोति श्राद्धकाले विशेषतः ॥२४॥ गोपीचन्दनखण्डांश्च यो दद्याद्ब्राह्मणे यदि। अपि सर्षपमात्रेण ब्रह्महत्यां । व्यपोहति ॥२॥ मृदं यज्ञोपवीतं च श्राद्ध दद्यात्प्रयत्नतः । उच्छिष्ट शिवनिर्माल्यं कुर्याच्छ्राद्ध विशेषतः ॥२६॥ निषिद्धानि च वाक्यानि शूद्राणां योषितां तथा । शून्यमुखेन कर्तव्यं श्राद्ध कर्म यथाविधि ॥२७॥ श्राद्धं कुर्यात्तु शूद्रोऽपि शून्यं कुर्याल्ललाटकम् । ललाटेतिलकं दृष्ट्वा निराशाः पितरोगताः ।।२।। शूद्रणतिलकं कृत्वा श्राद्धकर्मसु यत्कृतम् । निष्फलं तद्भवेच्छाद्धं पितृणां नोपतिष्ठति ॥२६।। यो यस्यविहितो धर्मस्तेनधर्मेण कारयेत् । विपरीतं चरेद्यस्तु किल्विषी स निगद्यते ॥३०॥