________________
२४६२
व्याघ्रपादस्मृतिः आचारं चैव सर्वेषां कार्याणां च विनिर्णयम् । यथाक्रमं यथायोग्य वक्त मर्हस्यशेषतः ॥६॥ भगवन् सर्ववर्णानां यथावदनुपूर्वशः । अन्तरं च प्रभावानां धर्मान्नो वक्तु मर्हसि ॥१०॥ युगेयुगे च सामर्थ्य विशेषं मुनिभाषितम् । व्याघ्रण च यथाप्रोक्त प्रायश्चित्तं प्रदीप्यते ॥११।। युगेयुगे च ये धर्मास्तेषु तेषु च ये द्विजाः । तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ।।१२।। अकृते वैश्वदेवे तु ये भुंजन्ति द्विजातयः । वृथा ते तेन पाकेन काकयोनि व्रजन्ति वै ॥१३॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा। एतेषां तु हितार्थाय व्याघ्रः शास्त्रमकल्पयत् ।।१४।। योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥१५॥ भानौभौमे त्रयोदश्यां नंदाभूगुमघासु च । पिंडदानं मृदास्नानं न कुर्यात्तिलतर्पणम् ॥१६॥ पक्षयोरुभयोर्वापि सप्तम्यां निशि सन्ध्ययोः । विद्यापुत्रकलत्रार्थी तिलान् सप्तसु वर्जयेत् ॥१७॥ विवाहे चोपनयने चौले सति यथाक्रमम् । वर्षमधं तदधं वा नेत्येके तिलतर्पणम् ।।१८।। वृद्धौ सत्यां च तन्मासि नेत्याहुस्तिलतर्पणम् । तीर्थे तिथिविशेषे च गयायां प्रेतपक्षके ॥१६॥