________________
॥ श्रीगणेशाय नमः॥ * व्याघ्रपादस्मृतिः *
तत्रादौ स्मृतिमहत्त्ववर्णनम् ऋषिमेकान्तासीनं व्याघ्र मतिमतां वरम् । पप्रच्छुर्मुनयः सर्वे धर्मशास्त्रकथानकम् ॥ १॥ हुताग्निहोत्रं विधिवत् व्याघ्र वेदविदां वरम् । सर्वशास्त्रविधि ज्ञात्वा ऋषिभिश्चनमस्कृतम् ॥२॥ नमस्कृत्य च ते सर्वे इदं वचनमब्रुवन् । हिताथं सर्वलोकानां भगवन् कथयस्व नः ॥ ३ ॥ वेदतत्त्वार्थतत्त्वज्ञा यन्मां पृच्छथ संशये । ते सर्वे संप्रवक्ष्यामि यथादृष्ट यथाश्रुतम् ॥ ४॥ सर्वतीर्थान्युपस्पृश्य सर्वान्वेदान्प्रणम्य च । जप्त्वा तु सवसूक्तानि सवशास्त्रानुसारतः ॥५॥ सर्वपापहरं दिव्यं सर्वसंशयनाशनम् । चतुर्णामपि वर्णानां व्याघ्रः शास्त्रमकल्पयत् ॥ ६॥ ये. च पापकृतोलोके ये चान्ये धर्मदूषकाः । सर्वपापैः प्रमुच्यन्ते श्रुत्वेदं शास्त्रमुत्तमम् ॥७॥ तस्मादिदं वेदविद्भिरध्येतव्यं प्रयत्नतः । शिष्येभ्यश्च प्रवक्तव्यं सवृत्तेभ्यश्चसर्वतः ॥८॥ १५६