Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 689
________________ २४६८ व्याघ्रपादस्मृतिः एकगोत्र ब्राह्मणानां पृथक् गोत्रस्तथैव च । कुर्याच्छाद्धादि कार्याणि महालयां तु सिद्धये ॥७२॥ वानप्रस्थयतीनां तु ब्रह्मचारिस्तथैव च। कुर्याच्छाद्धादिकं तस्य व्याघ्रस्य वचनं यथा ॥७३।। पूर्वेद्य : क्षणितोविप्रो ब्राह्मणः कर्तृ के यथा । अनुज्ञायता कार्याणि कृपां कतु यथाविधि ॥७४|| पूर्वेध : क्षणितं विप्रं यजुः शास्त्र तथैव च । गोत्रं नाम समुच्चार्य व्याघ्रस्य वचनं यथा |७|| गायत्र्याः स्थानमास्यं च मंडलं स विधीयते। गायच्या गोमयं तस्य मंडलं कारयेद्ध वम् ॥७६।। गायच्या वत्सप्रस्थानं मंडलं कुरुते यदि । मंडलं तोयमादाय कुशतिलैस्तथैव च ॥७७|| मंडलं बाहुमात्रं च कुर्याद्व श्राद्धकर्मणि । देवकार्येषु सर्वत्रारत्निमात्रं प्रशस्यते ॥८॥ गृहस्योत्तरतोभागे कुर्याद् गोमयमंडलम् । उत्तरे मंडले देवा दक्षिणे पितरस्तथा ।।७।। हस्तस्यव्यवधानेन मंडले द्व' च कारयेत् । पूर्वप्लवं वृद्धिकरं नराणां, तथोत्तरं चैव धनप्रदं ॥ धनक्षयं पश्चिमतप्लवेन, आयुःक्षयं दक्षिणतप्लवेन । ८०

Loading...

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720