Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 5
________________ ॥ श्रीः॥ भूमिका अथे गीर्वाणवारवलिललितालवालकल्पा अनल्पादरकीयादिकमनीयगुणगणार्णवा विद्याविन्दवो विभूषितवसुन्धराः ? विदितमेवैतत् तत्रभवतां यत् सर्वं हि वक्तव्यं श्रोतव्यं च शब्दाधीनमेव उक्तं चाभियुक्तः " न सोस्ति प्रत्ययो (ज्ञानम्) लोके यः शब्दानुगमाहते। अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥” इति । स च शब्दः किं च कथं च बोधयति शब्दखण्डेन निरूप्यते, शब्दपि प्रकृतिप्रत्ययभेदेन द्वौ भागौ तत्र प्रत्ययार्थस्य श्रीगदाधरभट्टाचार्येण व्युत्पत्तिवादे निरूपणं कृतम् (तस्यापि मयाऽऽदीख्या व्याख्या विरचितास्ति) प्रकृत्यर्थस्य शक्तेश्चात्र शक्तिवादे, अस्य च ग्रन्थस्य सामान्यकाण्डविशेषकाण्डभेदेन भागद्वये यथाक्रमं सामान्यविशेषशब्दानां शक्तेर्विचारः कृतः, अन्ते च मीमांसकमतमपि पूर्वपूर्वमतखण्डनपुरस्सरमुपन्यस्तं किं तु ज्ञानशक्तिवादस्य सर्वान्तनिक्षिप्तस्य खण्डनं नोपलभ्यते तस्य कारणं न विज्ञायते किं नष्टः स भागः किं वा अन्थकारेणैव केनचित्कारणेन न निर्मित इति । अस्य च शक्तिवादस्य ये खलु मयाऽर्थी विद्यागुरुभ्यो महामहोपाध्याय सी आई ई श्री ७ श्रीगङ्गाधरशास्त्रिचरणेभ्योऽगुमात्रमगतास्तान स्वकीयज्ञानरक्षार्थ संकलय्याऽऽदर्शसमाख्येयं व्याख्या केवलं छात्राणामुपयोगार्थ प्रकाशितास्ति । एते चार्थाः प्रायः काशीस्थवैयाकरणकेसरिसांप्रदायिका एव । मूलपाठोप्यासमाप्ति यथामति प्राक्तनलिखितानेकपुस्तकसाहाय्येन संशोधित इति मन्ये प्रीतिकरः कोविदानां भविष्यतीति निवेदयन् "न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः ।। दोषो ह्यविद्यमानोपि तच्चित्तानां प्रकाशते " इत्यादीन्यत्र वाक्यानि चिन्तनीयानि कोविदः । शुद्धं यदा तद् ग्राह्यं दुरं चास्तु ममैव मे ।। इति विज्ञापयति-- श्रीमतीयः पश्चनदीयः सुदर्शनाचार्यः काशी

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 216