________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चौरैरिवाशु पशवः प्रपलायमानैः. त्वं तारको जिन! कथं भविनां त एव, त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः; यद्वा दृतिस्तरति यज्जलमेष नूनमन्तर्गतस्य मरुतः स किलानुभावा. यस्मिन् हर-प्रभृतयोऽपि हतप्रभावाः, सोऽपि त्वया रतिपतिः क्षपितः क्षणेन; विध्यापिता हुत-भुजः पयसाथ येन, पीतं न किं तदपि दुर्द्धर-वाडवेन?. स्वामिन्ननल्प-गरिमाणमपि प्रपन्नास्त्वां जन्तवः कथमहो हृदये दधानाः?; जन्मोदधिं लघु तरन्त्यति-लाघवेन, चिन्त्यो न हन्त महतां यदि वा प्रभावः. क्रोधस्त्वया यदि विभो! प्रथमं निरस्तो, ध्वस्तास्तदा तब कथं किल कर्म-चौराः?; प्लोषत्यमुत्र यदि वा शिशिराऽपि लोके; नीलद्रुमाणि विपिनानि न किं हिमानी?. त्वां योगिनो जिन! सदा परमात्म-रूप
२९
For Private And Personal Use Only