Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ सप्तभङ्गप्रभा न च प्रत्येकं कथञ्चिदस्तित्वनास्तित्वयोर्निश्चयेऽप्युभयत्वेनाऽनिश्चयात् तद्रूपेण संशयः स्यात्, एकरूपेण तन्निश्चयस्य रूपान्तरेण तत्संशयं प्रत्यप्रतिबन्धकत्वादिति वाच्यम् । ४ वोधकपदाभावेनोभयत्वेन रूपेणाऽस्तित्वनास्तित्ववोधस्य तृतीयभङ्गतोऽजायमानत्वेनोभयत्वेन रूपेण तत्संशयस्य तदननुगुणत्वात् समुच्चयार्थकेन चकारेण तृतीयभङ्गप्रविष्टेनोभयत्वस्याऽवबोधनसम्भवे वोभयत्वाश्रयैकधर्मनिश्चयस्योभयत्वाश्रयधर्मान्तरनिश्चयकालीनस्योभयत्वेन रूपेण तद्धर्मप्रकारकसंशयं प्रति प्रतिबन्धकत्वस्याऽनुभवातीतत्वेऽप्युभयत्वाश्रयधर्मान्तरनिश्चयकालीनस्य तस्य तथाविधसंशयं प्रति निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वस्याऽनुभूयमानस्याऽप [Sपलपितुमशक्यत्वात् 1 सहार्पितस्वरूपपररूपादिविवक्षातो योऽयं स्यादवक्तव्य एव घट इति चतुर्थो भङ्गः प्रवर्तते सोऽपि न युक्तियुक्तः, तद्विषयतयाऽभिमतस्य कथञ्चिदवक्तव्यत्वस्य धर्मान्तरतयैव स्वीकारेण तत्संशये प्रथमभङ्गादिजन्यतत्तदर्थनिश्चयस्याऽप्रतिबन्धकत्वेऽपि तथाविधावक्तव्यत्वस्य विधिरूपत्वप्रतिषेधरूपत्वान्यतरानास्पदत्वेन तत्प्रतिपादकचतुर्थभङ्गघटितसमुदायात्मकसप्तभङ्गयाः प्राश्निकप्रश्नज्ञानप्रयोज्यत्वे सति एकवस्तुविशेष्यकाविरुद्धविधिप्रतिषेधात्मकधर्मप्रकारकबोधजनकसप्तवाक्यपर्याप्तसमुदायत्वरूपसप्तभङ्गीलक्षणवैधुर्यात् । न च, वक्तव्यत्वप्रतिषेधरूपत्वेनाऽवक्तव्यत्वस्य विधिप्रतिषेधान्यतरानात्मकत्वमेवाऽसिद्धमिति वाच्यम् । यद्धर्मस्य विधिप्रतिषेधकल्पनया या सप्तभङ्गी, तस्यां तद्धर्मविधिप्रतिषेधात्मकधर्मबोधकवाक्यघटितत्वस्यैवोक्तलक्षणाभिप्रेतत्वेनाऽस्तित्वस्य विधिनिषेधकल्पनया प्रवृत्तायाः सप्तभङ्गन्या घटकस्य वाक्यस्याऽस्तित्वस्य यो विधिः स्वरूपम्, अस्तित्वस्य यो निषेधो नास्तित्वं, तदन्यतरप्रकारकबोधजनकत्वमेवोचितम् । अवक्तव्यत्वं च नास्तित्वस्य विधिनाऽर्पितस्य प्रतिषेध इति तत्प्रतिपादकभङ्गघटितसप्तभङ्गया उक्तसप्तभङ्गीलक्षणवैधुर्यं स्यादेव । यदि च वक्तव्यत्वमस्तित्वेन नास्तित्वेन वाऽभिधेयत्वं तच्चाऽस्तित्वस्य स्वरूपे नास्तित्वस्य स्वरूपे वा पर्यवस्यतीति तन्निषेधरूपतयाऽवक्तव्यत्वस्य न प्रकृतधर्मविधिनिषेधान्यतरात्मकताऽसिद्धेति विभाव्यते, तदा प्रस्तुतधर्मविधिनिषेधयोर्निश्चयस्याऽनन्तरभङ्गेन सद्भावेऽवक्तव्यत्वस्य संशयाभावादेव न तुर्यभङ्गप्रवृत्तिरुपपद्यते, सेयमुभयतः पाशा रज्जुः । एवं पञ्चमषष्ठसप्तमभङ्गा अपि तत्प्रतिपाद्यधर्मविषयकसंशयासम्भवेन जिज्ञासाप्रश्नयोरभावादवतारयितुमशक्या इति चेद्, मैवम् । यतः प्रतिपाद्यस्य स्यादस्त्येवेति प्रथमभङ्गजन्यान्वयवोधानन्तरं नास्तित्वसंशयजिज्ञासातः प्रश्ने सति तज्ज्ञानात् स्याद्वादिना तत्संशयनिवृत्यर्थं स्यान्नास्त्येवेति द्वितीयभङ्गः प्रयोक्तव्यः । ततश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106