Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सप्तभङ्गीप्रभा नास्तित्वविषयकज्ञानत्वावच्छिन्नं प्रत्यपि । न हि सम्भवति कथञ्चिदस्ति घटः सर्वथा नास्तीति च, सर्वथेत्यनेन येन रूपेणाऽस्तित्वं तद्रूपस्याऽप्युपग्रहात् । कथञ्चिन्नास्तित्व-सर्वथास्तित्वकोटिकोऽपि संशयो न सम्भवति, सर्वथास्तित्वज्ञानं प्रति कथञ्चिदस्तित्वनिश्चयस्य प्रतिवन्धकत्वादेव । विधिनेषधयोरेकानवच्छेदकस्याऽपरावच्छेदकत्वनियमतो यदूपस्याऽस्तित्वावच्छेदकत्वं न भवति तद्रूपस्य नास्तित्वावच्छेदकत्वावगमसम्भवादेकरूपेणाऽस्तित्वस्याऽवगतौ तदनवच्छेदकरूपेण नास्तित्वस्याऽवगमसम्भवेन तदर्थं स्यान्नास्त्येवेति भङ्गप्रयोगस्याऽनतिप्रयोजकत्वात् ।
न च, स्यान्नास्त्येव घट इति द्वितीयभङ्गः प्रथमभड्नेन सह तदुत्थापिताकाङ्क्षानिवर्तकत्वादिरूपमेकवाक्यत्वं नाऽऽत्मसात्करोति, किन्तु स्वतन्त्र एवाऽयं भङ्गः । स्यादस्त्येवेति प्रथमभङ्गजन्यवोधस्य नियतपूर्वभावं नाऽपेक्षत इति कथञ्चिन्नास्तित्व-सर्वथानास्तित्वकोटिकेन संशयेन सम्भविना जिज्ञासाप्रश्नविशेषयोः सम्भवात् प्रश्नविशेषज्ञानाच्च नाऽस्याऽवतारासम्भव इति वाच्यम् ।
तथा सति, स्यादस्त्येवेति प्रथमभङ्गानन्तरं द्वितीयभङ्गो यथा स्यान्नास्त्येवेत्येवंरूपेण प्रवर्तते तथा स्यान्नित्यमेव स्यादिन्नमेवेत्यादिरूपेणाऽपि प्रवर्तेतेति नियामकाभावात् सहस्रभङ्गीत्वादिप्रसक्त्या सप्तभङ्गीत्वव्याकोपः । न चैवंविधसहस्रभङ्गीत्वाद्यालिङ्गितादपि वाक्यान्निराकाङ्क्षो बोधः, वस्तुनि धर्माणामनन्तत्वेन यद्यद्धर्माणां निर्णयो नाऽजनि तत्तद्धर्मप्रकारकसंशयतो जिज्ञासाविशेषोत्पत्तेरप्रतिहतत्वात् ।
एवं स्यान्नास्त्येवेति द्वितीय भङ्गप्रवृत्तेः कथञ्चिदुपपादनेऽपि स्यादस्त्येव स्यान्नास्त्येव चेति तृतीयभङ्गप्रवृत्तिरुपपादयितुमशक्या, कथञ्चिदस्तित्वस्य प्रथमभड्रेन कथचिन्नास्तित्वस्य च द्वितीयभङ्गेनाऽवधारणे तदनतिरिक्तस्य क्रमार्पिततदुभयस्य संशयासम्भवेन जिज्ञासाप्रश्नयोरसम्भवात् । यदि च संशयानुरोधेन क्रमार्पिततदुभयमतिरिक्तमेवेत्यभ्युपगम्यते तदा क्रमार्पितत्वरूपं विशेषणमेव तत्र न घटते । न [भयत्वेन रूपेणैकस्वरूपस्य तस्य क्रमार्पणम्, एकस्य क्रमार्पणाभावात् । किञ्च, तृतीयभङ्गप्रतिपाद्यस्य क्रमार्पिततदुभयस्याऽतिरिक्तत्वे यथाऽस्तित्वस्याऽपेक्षानिमित्तमन्यद् नास्तित्वस्य चाऽपेक्षानिमित्तमन्यत् तथा तदुभयस्याऽप्यपेक्षानिमित्तमन्यत् स्यात्, न चैतदिष्टम् ।
न चाऽवच्छेदकसंवलितस्यैवाऽस्तित्वस्य नास्तित्वस्य चोभयस्वरूपे प्रविष्टत्वेन तत एव तदुक्तेः सापेक्षोक्तित्वसम्भवान्नाऽपेक्षानिमित्तान्तरस्याऽऽवश्यकतेति वाच्यम् ।
एवं सत्युभयस्य प्रत्येकानतिरिक्तत्वस्यैव स्वहस्तितत्वात् तथा च प्रत्येकनिश्चये कथं तदुभयसंशयः ?।
न च, तृतीयभङ्गे क्रमार्पितत्वमधिकं भासते, न च तस्य पूर्वं निश्चय इति तद्विशिष्टस्योभयस्य संशयोपपत्तिरिति वाच्यम् ।
प्रत्येकं पृथग्वचनेन प्राधान्येन प्रतीयमानत्वत एव क्रमार्पितत्वस्य सम्भवेन तद्बोधकपदाभावेन तृतीयभड्नेन तस्य वोधाभावेन स्वरूपत एव तस्योपयुक्तत्वेन तत्संशयस्य तृतीयभङ्गाप्रयोजकत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 106