Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ सप्तभङ्गीप्रभा चतुर्थभङ्गप्रतिपाद्यस्य त्ववक्तव्यत्वस्य धर्मान्तरतयैवोररीकारेण तत्संशयं प्रति तृतीयभङ्गजन्यबोधस्य कथमपि प्रतिबन्धकत्वासम्भवेन तदुत्पत्तिक्रमेण चतुर्थभङ्गावतारः सुघटः । एवं पञ्चमादिभङ्गोत्थापकाः संशयाः सूपपादा इति दिक् । वियं सप्तभङ्गी तदा स्याद् यद्यस्तित्वादिधर्माणां सप्तविधत्वमेवेति नियमः स्यात् । न चाऽयं नियमः सम्भवति, तत्तद्भङ्गप्रतिपाद्यतयाऽभिमतानामस्तित्वादिधर्माणामेव निर्वक्तुमशक्यत्वात्, न्यूनाधिकसङ्ख्याभावाभावाच्च । तथा हि यथैवैकान्ततत्त्ववादिभिर्ये ये धर्मा अभ्युपगम्यन्ते तथैव ते ते धर्मा यद्यनेकान्तवादिनाऽपि तेन तेन भङ्गेन सप्तभङ्गीघटकेन प्रतिपाद्यन्ते तदाऽनेकान्तवादित्वं तस्याऽचतुरस्रमेव स्यात् । अत एकान्तवाद्यनभ्युपगतप्रकारेणैव ते ते धर्मास्तत्तद्वङ्गप्रतिपाद्या इत्यास्थेयम् । ९ - इत्थं च प्रथमभङ्गार्थ एव तावद्विचारणीयः । तत्र स्यादस्त्येव घट इत्यस्य निपातानां द्योतकत्वं वाचकत्वं वेत्युभयथाऽप्यनेकान्तावबोधकेन स्यात्पदेनाऽपेक्षानिमित्तस्य घटत्वादेरुपस्थापनतो घटत्वावच्छिन्नास्तितावानेव घट इत्यर्थः प्रतीयते । तत्र किं तावदस्तित्वम् ? न तावद् वृत्तित्वं, तथा सत्येकान्तवादिभिरपि वृत्तित्वादीनां सावच्छिन्नत्वस्योरीकारेण ततोऽविशेषप्रसङ्गः । न हि घटे या भूतलादिनिरूपिता वृत्तिता सा न घटत्वावच्छिन्नेति नैयायिकादीनामप्युपगमः । वृत्तित्वस्य च सनिरूपकत्वेन निरूपकविशेषापुरस्कारेण तद्बोधस्याऽपरिपूर्णत्वे सप्तभङ्गीतोऽपि समूहालम्बनस्तद्विषयको वोधोऽपरिपूर्ण एव स्यादिति विधिनिषेधकल्पनयाऽस्तित्वादेः निराकाङ्क्षाववोधार्थं सप्तभयुपासनं प्रयासमात्रमापद्येत । किञ्च, वृत्तित्वरूपास्तित्वस्य संयोगेन घटाद्यधिकरणं यद्भूतलादि, तादात्म्येन घटाद्यधिकरणं वा यन्मृदादि तन्निरूपकमेव, न त्ववच्छेदकम् । एवं च स्वद्रव्येण घटोऽस्त्येव स्वक्षेत्रेण घटोऽस्त्येवेत्यत्र च स्वद्रव्यावच्छिन्नत्वस्य स्वक्षेत्रावच्छिन्नत्वस्य च वृत्तित्वे बाधाद् बोधानुपपत्तिः । न च तत्र स्वद्रव्यनिरूपितं स्वक्षेत्रनिरूपितं च वृत्तित्वं प्रतीयते इति वाच्यं । तथा सति तद्बोधिका सप्तम्येव स्यात्, न तृतीया । परमतादविशेषोऽत्राऽपि, घटनिष्ठवृत्तित्वस्य भूतलादिनिरूपितस्यैव परैरुपगमात् । एतेन स्वकालेन स्वकाले वाऽस्तीत्यपि प्रत्युक्तम् । देशनिरूपितवृत्तितायां कालस्य, कालनिरूपितवृत्तितायां देशस्य चाऽवच्छेदकत्वस्य परैरप्युपगमात् । किञ्च, क्षेत्रनिरूपितवृत्तित्व- द्रव्यनिरूपितवृत्तित्व-कालनिरूपितवृत्तित्वानां निरूपकभेदादवच्छेदकसम्बन्धभेदाच्च परस्परं भिन्नत्वेऽपि तेषां सर्वेषां घटत्वावच्छिन्नत्वेन घटत्वावच्छिन्नवृत्तितातो न भेदो, न वा घटत्वावच्छिन्ना वृत्तिता तेभ्योऽन्या काचित् समस्तीति घटत्वावच्छिन्नवृत्तित्वप्रतिपादकभङ्गघटितसप्तभङ्गया भूतलादिवृत्तित्वप्रतिपादकभङ्गघटितसप्तभङ्गीतो गतार्थता । Jain Education International न च यदेव घटे वृत्तित्वं घटत्वावच्छिन्नं तदेव भूतलादिनिरूपितमपि परन्त्वेकस्यां सप्तभङ्गयां घटत्वावच्छिन्नत्वेन प्रतीयतेऽन्यस्यां च भूतलादिनिरूपितत्वेन प्रतीयते तेन तेन रूपेण स्वरूपत एकस्यापि For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106