Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ सप्तभङ्गप्रभा घटः, स्यादेक एव घटः स्याद्विन्न एव घट इत्यादौ सर्वत्र तथैव दृष्टत्वात् । कथञ्चित्त्वं च किञ्चिन्निष्ठाव च्छेदकतानिरूपितावच्छेद्यतावत्त्वमेवाऽन्यत्र सर्वत्राऽनुभूयते, न तु किञ्चिन्निष्ठनिरूपकतानिरूपितनिरूप्यतावत्त्वम् । तथा च स्यादित्यस्य योऽर्थस्तदर्थविशेषप्रतिपादक एव यदि स्वद्रव्येणेति, तदा तेनाऽपि स्वद्रव्यनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावत्त्वमेव प्रतीयेत, न तु स्वद्रव्यनिष्ठनिरूपकतानिरूपितनिरूप्यतावत्त्वम् । न चोक्तावच्छेद्यत्वं प्रतिपादयितुं शक्यं द्रव्यस्य वृत्तित्वरूपास्तित्वस्याऽधिकरणविधया निरूपकत्वस्यैव भावात् । कालनिरूपितवृत्तितायां देशादीनां, देशादिनिरूपितवृत्तितायां कालस्य चाऽवच्छेदकत्वमाश्रित्योक्तार्थोपपादनं च परमतादविशेषप्रसङ्गेणैव हेयम् । , किञ्च, प्राश्निकप्रश्नज्ञानप्रयोज्यत्वपक्षे घटत्वेनेत्यादिपदघटितैव सप्तभी मुख्यतः प्रयोक्तुमुचिता, निराकाङ्क्षपरिपूर्णबोधे साक्षादुपयोगित्वात्, स्यादित्यनेन कथञ्चिदित्यस्य लब्धत्वेऽपि तद्विशेषजिज्ञासायास्ततोऽनिवृत्तेः, विशेषोक्तौ च सामान्यजिज्ञासाया विशेषजिज्ञासायाश्च निवृत्तेः । तथाऽपि यदि सामान्योक्तिराद्रियते तदा यथा स्यादितिपदं सामान्यतोऽपेक्षानिमित्तस्योक्तिः, तथा भावभूतधर्मवदितित्यस्तित्वकत्वनित्यत्वादीनां विधिधर्माणां सामान्यत उक्तिः, वस्त्विति घटपटादिधर्मिमात्रस्य सामान्यत उक्तिः, निषेधात्मक धर्मवदिति च नास्तित्वानेकत्वानित्यत्वादीनां सामान्यत उक्तिः । एवं च स्याद्विध्यात्मक - धर्मवदेव वस्तु, स्यान्निषेधात्मकधर्मवदेव वस्तु, स्याद्विध्यात्मकधर्मवन्निषेधात्मकधर्मवच्च वस्तु, स्यादवक्तव्यमेव वस्तु, स्याद्विध्यात्मकधर्मवदवक्तव्यं च वस्तु, स्यान्निषेधात्मकधर्मवदवक्तव्यं च वस्तु, स्याद्विध्यात्मकधर्मवन्निषेधात्मकधर्मवदवक्तव्यं च वस्तु, इत्येकरूपा सप्तभङ्गयेव मुख्याऽस्तु सर्वावच्छेदकधर्मधर्म्यनुगतोक्तित्वात् । अन्या अवच्छेदकविशेष-धर्म-विशेष-धर्मिविशेषप्रतिपादनपराः सप्तभङ्गन्यस्तद्विवरणपर्यवसायिन्य इति । 99 अस्तित्वादिधर्मविशेषप्रतिपादके भङ्गे स्यात्पदोपादानमप्युक्तयुक्त्या न स्यादित्येतेन यत्रैक एव प्रतिपादकः प्रतिपाद्याश्च बहवः घटेऽस्तित्वं सर्वप्रकारावच्छिन्नं घटत्वाद्येकधर्मावच्छिन्नं वा, सर्वदेशनिरूपितं भूतलादिकिञ्चिद्देशनिरूपितं वेत्येवं पृथक् पृथक् संशयवन्तः, तत्र युगपदेवाऽनेकविधप्रश्नज्ञानेन प्रयोक्तव्ये उत्तरवाक्ये सप्तभङ्ग्यात्मके स्यात्पदातिभङ्घटितत्वमेव युज्यते । तथा सति एकस्मादेव वाक्यात् सर्वेषां संशयनिवृत्तिः । घटत्वेनाऽस्त्येव घट इत्याद्युक्तौ घटत्वावच्छिन्नास्तित्वज्ञानेनैकस्य संशयनिवृत्तावप्यपरस्य सर्वदेशनिरूपितत्वादिकोटिकसंशयानिवृत्तेस्तदर्थं सप्तभङ्गयन्तरस्याऽपि प्रयोक्तव्यत्वं स्यात्, न चैतन्याय्यम्, उक्तप्रकारेण सकृदुक्त्याऽपि सर्वेषां संशयनिवृत्तिसम्भवे प्रयासगौरवाश्रयणस्य निष्प्रयोजनत्वादिति निरस्तम् | यत्र कस्यचित् कथञ्चिदस्तित्व - नास्तित्वयोः संशयः, कस्यचिच्चैकत्वानेकत्वयोः संशयः, अन्यस्य भेदाभेदयोः संशय इत्येवं पृथक् पृथक् संशयवन्तो बहवः पुरुषाः प्रतिपाद्याः प्रतिपादकश्चैकस्तत्रोक्तयुक्त्या स्यादस्त्येवेत्याद्येकसप्तभङ्गयाः प्रयोगेन सर्वेषां संशयनिवृत्तिरिति स्यान्नित्य एवेत्यादिसप्तभङ्गयन्तरस्याऽपि प्रयोगे प्रयासगौरवमिति सर्वावच्छेदकधर्मधर्मिप्रतिपादनप्रवणायाः स्याद् भावभूतधर्मवदेव वस्तु, स्यान्निषेधात्मक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106