Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सप्तभडीप्रभा
प्रसाक्षीदिति निरूपकतयाऽधिकरणविशेषो भूतलादिर्यथा प्रथमभड्ने निविशति तथा स एवोपस्थितत्वाद् द्वितीयभङ्गेऽपि प्रविशति । तत्र च घटत्वावच्छिन्नघटनिष्ठप्रतियोगिताकाभावस्य नाऽस्त्यन्वयसम्भव इति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य द्वितीयभङ्गार्थत्वमावश्यकमिति । तेन "इतोऽपि द्वितीयभङ्गो नोपपद्यत'' इत्यादिकमरण्यरुदितप्रायम् । शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते इत्यस्माभिरपि स्वीक्रियते । परं सा न स्वरूपसती हेतुः, सकाक्षेऽपि निराकाक्षत्वभ्रमाच्छाब्दबोधानुत्पादस्य निराकाक्षेऽपि च साकाक्षत्वभ्रमाच्छाब्दबोधोत्पादस्य च दर्शनात्, किन्तु ज्ञाता ज्ञानं च तस्य न श्रावणमेव विवक्षितुं शक्यम्, अव्यवहितोत्तरत्वादेराकाङ्क्षाशरीरघटकस्य श्रोत्रेन्द्रियायोग्यत्वात्, किन्तु ज्ञानसामान्यम् । तच्चाऽधिकरणविशेषवाचकपदस्याऽनुपन्यासेऽपि सम्भवति, आकाङ्क्षावहिर्भूतं च पदमुच्चार्यमाणमपि न साकाङ्क्षतया ज्ञातमिति न ततः शाब्दवोधप्रसङ्गः । यथा च घटो नास्तीत्युक्तावधिकरणविशेषस्याऽनुसन्धानं भवति तथा नाऽन्यस्येत्यत्राऽनुभववलमेवाऽवलम्बनीयम् । मन्दमतीन् व्युत्पादयितुमधिकरणविशेषोपादानमप्यस्तु, किं नश्छिन्नम् ? यद्यपि वाच्यत्वप्रमेयत्वादिकं केवलान्वयि, तथाऽपि यस्य पुरुषस्य यत्र तस्य जिज्ञासा तं प्रति तत्रैवोपादानं तस्य फलवद् भवति, नाऽन्यत्र । तथा व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयित्वेऽपि प्रथमभङ्गेन घटस्य यदधिकरणेऽस्तित्वमवधारितं तदधिकरण एव तदभावस्योपपत्तये स्याद्वादस्याऽऽश्रितत्वेन तत्रैव स आकाङ्क्षितत्वादुपदर्शयितुं योग्य इति तस्याऽधिकरणसङ्कोचो गुणायैव ।
यत एव यत्राऽधिकरणे घटस्याऽस्तित्वं प्रथमभङ्गेनाऽवधारितं तत्राऽधिकरण एव घटस्य व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावो द्वितीयभङ्गेनाऽवबोध्यते, तत एव तस्य केवलान्वयित्वं वादिनं प्रति ख्यापितं भवति । यतो घटानधिकरणदेशे घटस्य समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकोऽप्यभावः सर्वैरपि वादिभिः स्वीक्रियते, तत्र व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावोऽस्तीति कैमुतिकप्राप्तमेव, नोक्तिमपेक्षते । घटस्याऽधिकरणे त्वप्राप्तत्वात् स विधातुं योग्यः । एवं च सति घटाधिकरणतदनधिकरणसकलदेशवृत्तित्वात् केवलान्वयित्वमुपपादितं भवतीति नाऽधिकरणविशेषोपादानं व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावस्याऽवस्थानसोचापादकम् । समनियतानां चाऽभावानां न सर्वथा भेदो नाऽपि सर्वथाऽभेदः, किन्तु भेदाभेद एव स्वीक्रियते । कथमन्यथा पटत्वरूपप्रतियोगितावच्छेदकज्ञाने सति पटत्वेन घटो नाऽस्तीति धीर्भवति, न तु परद्रव्यादिना घटो नाऽस्तीति धीः ? ततश्च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयकत्वेऽपि द्वितीयभङ्गस्य परभावेन घटो नास्तीति परद्रव्येण घटो नास्तीत्यादीनां वैलक्षण्यमप्रतिहतमेव । समनियतानामभावानां सर्वथैक्यमभ्युपगच्छद्भिरपि भवद्भिस्तत्तन्निरूपितप्रतियोगिता अवच्छेदकभेदाद्भिन्ना एवाऽभ्युपगम्यन्ते । अत एव समनियतानामभावानामैक्येन सर्वेषामेव व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावानां केवलान्वयिनो गगनाभावस्य स्वरूपतया गगनाभावस्याऽभ्युपगमे व्यधिकरणधर्मावच्छिन्नप्रतियोगिताका
१. पृ. २१, पं. १३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106