Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सप्तभङ्गप्रभा
भयात्मकत्वमिति दिगि 'ति तद्व्याख्यानम् ।
अत्र ये विरोधवैयधिकरण्यानवस्थासङ्करव्यतिकरसंशयाप्रतिपत्तिवस्त्वभावाभिधानष्टौ दोषानापादयन्ति तेऽनेकान्तवादस्वरूपमेव न जानन्ति, नवा तेषां दोषाणां स्वरूपमिति जानीमहे । तथा हि - विरोधस्त्रिविधः - परस्पराभावरूपत्वं, परस्पराभावापादकत्वं, परस्परभेदवत्त्वमिति भेदात् । तत्राऽऽद्यो भावाभावयोः, नित्यत्वानित्यत्ववत् । द्वितीयः परस्पराभावव्याप्ययोः, शीतोष्णत्ववत् । तृतीयो विविक्तलक्षणयोर्धर्मयोः, दण्डिकुण्डलित्ववत् । आद्यस्तावद्विरोधोऽस्तित्वनास्तित्वयोः को नाम नाऽनुमनुते ? किन्तु नाऽयं विरोधो विरोधिनः स्वरूपस्यैवोपमर्दकः । तथा सति विनिगमनाविरहादस्तित्वविरोधान्नास्तित्वं नास्तित्वविरोधाच्चाऽस्तित्वं जगति न स्यादेव । एवं च धर्मिणोरभावाद् विरोधोऽप्ययं शशशृङ्गकल्पः स्यात् । एवं विरोधतदभावयोरप्युक्तलक्षणविरोधास्पदत्वादभाव एव स्यात् । एतेनैव द्वितीयतृतीयावपि विरोधौ न विरोधिनः स्वरूपस्यैवाऽपहारकावित्यपि व्याख्यातम् । इदं तु स्याद् यत्र परस्पराभावरूपत्वलक्षणः परस्पराभावापादकत्वलक्षणो वा विरोधः, तत्र सहानवस्थानमभ्युपगम्यत इति विरोधनियतत्वात् सहानवस्थानमपि विरोधः । एवं च द्वितीयविरोधसमाक्रान्तयोः शीतोष्णयोर्यथा नैकत्राऽवस्थानं तथाऽस्तित्वनास्तित्वयोरपि प्रथमविरोधसमाक्रान्तयोः स्यात् । तत्राऽपि सहानवस्थानं नैकाधिकरणावृत्तित्वम्, एकसम्बन्धेन प्रतियोगिमत्यपि सम्वन्धान्तरावच्छिन्न-प्रतियोगिताकतदभावस्य परैरपि स्वीकारात् । नाऽपि येन सम्वन्धेन यस्य यदधिकरणं तस्मिन्नधिकरणे तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगिताकाभावस्याऽवृत्तित्वं तत्, एकरूपेण तद्वत्यपि रूपान्तरेण तदभावस्य भावात् । नाऽपि रूपविशेषस्योक्तविरोधकोटौ निवेशेऽपि निस्तार:, तेन रूपेण तेन सम्बन्धेन तद्वत्यपि कालान्तरे तेनैव रूपेण तेनैव सम्बन्धेन तदभावस्य भावात् । नाऽपि कालविशेषस्य तत्र प्रवेशेऽपि निर्वाहः, तथा प्रतियोगिमत्यपि तथैव तदभावस्य देशभेदेन भावात् ।
९१
तस्माद् यद्रूपेण यत्सम्वन्धेन यदा यद्देशावच्छेदेन यस्य यदधिकरणं तद्रूपावच्छिन्नतत्सम्वन्धावच्छिन्नतन्निष्ठप्रतियोगिताकाभावस्य तत्काले तद्देशावच्छेदेन तस्मिन्नधिकरणे न सत्त्वमित्येव भावाभावयोः सहानवस्थानं वाच्यम् । तादृशस्य विरोधस्यैकत्र भिन्नरूपाद्यवच्छेदेनाऽस्तित्वनास्तित्वयोः स्वीकृतौ न प्रतिपन्थित्वम् । भिन्नावच्छेदेनाऽस्तित्वनास्तित्वयोरविरोधद्योतनायैव हि सप्तभङ्गयां स्यात्पदं प्रयुज्यत इति । एवं च कथञ्चिदस्तित्वकथञ्चिन्नास्तित्वयोः सप्तभङ्गीगोचरयोर्नास्त्येव विरोध इति को नाम प्रमाणदर्शी नाऽभ्युपगच्छेत ? एतेन विभिन्नाधिकरणवृत्तित्वमपि प्रत्युक्तम् ।
अनवस्था तु यथा नाऽत्र दोषतामावहति, तथोपपादितमधस्तात् । न हीयं सप्तभङ्गी परीक्षकाणामनुभवमवधूयाऽभ्युपगम्यते । येन येन रूपेण सत्त्वं तेन रूपेणाऽसत्त्वस्याऽपि प्राप्तिर्येन रूपेणाऽसत्त्वं तेन रूपेण सत्त्वस्याऽपि प्राप्तिरिति संकरः स्यात् । प्रमाणरूपविनिगमनवलाच्च रूपभेदेनैव सत्त्वासत्त्वयोर्व्यवस्थितौ कुतः संकरस्याऽवकाश: ? एतेनैव येन रूपेण सत्त्वं तेन रूपेणाऽसत्त्वमेव स्यात्, न तु सत्त्वम्, येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106