Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 45
________________ ३८ सप्तभङ्गीप्रभा त एव च ब्रह्मज्ञानेतरज्ञानाबाध्यत्वलक्षणं व्यावहारिकसत्त्वमनभ्युपगम्य व्यवहारोपपादनमशक्यमतः स्वाधिष्ठानत्वेन सम्मतनिष्ठात्यन्ताभावप्रतियोगित्वं स्वरूपेण न घटपटादौ सम्भवतीति स्वाधिष्ठाननिष्ठात्यन्ताभावीयपारमार्थिकत्वावच्छिन्नप्रतियोगित्वमेव मिथ्यात्वमित्यभ्युपगच्छन्तो लौकिकयौक्तिकपक्षद्वयकृतादराः सत्त्वे सत्यवक्तव्यत्वमेव स्वपक्षे निक्षिपन्ति । ये त्वौपनिषदाः स्वाधिष्ठानत्वेन सम्मतनिष्ठात्यन्ताभावप्रतियोगित्वमेव मिथ्यात्वं, सम्मतेति निवेशादेव स्वाधिकरणे कथं स्वरूपत एव स्वस्याऽभावो येन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावानभ्युपगमेऽपि मिथ्यात्वोपपादनं घटते ? इति शङ्काया नाऽवकाशः। एवं च व्यवहारकालेऽपि स्वरूपत एव घटस्य न सत्त्वम् । न चैवमसत्त्वाविशेषाद् यथा शशशृङ्गादितो न किमपि कार्यं जायते तथा घटपटादितोऽपि न किमपि कार्यं स्यादिति वाच्यम् । सत्त्वाविशेषेऽपि घटत एव जलाहरणं, पटत एवाऽवरणमित्यर्थक्रियाप्रतिनियमोपपादनाय प्रतिनियतकार्यकारणभावाभ्युपगमस्याऽऽवश्यकतया तत एव शशशृङ्गादितः कार्यप्रसङ्गस्याऽनवकाशात् । कार्यकारणभावमात्रेण सत्त्वासञ्जनं तु “अन्तर्भावितसत्त्वं चेत्, कारणं तदसत् ततः । नाऽन्तर्भावितसत्त्वं चेत्, कारणं तदसत् ततः” ।।१।। इत्यादियुक्त्या खण्डनखण्डखाद्ये श्रीहर्षमित्रैरपाकृतमेवेत्युपगच्छन्ति ते ब्रह्मदृष्टियौक्तिकदृष्टिद्वयावलोकिनोऽसत्त्वे सत्यवक्तव्यत्वमेवाऽर्थतोऽभ्युपगच्छन्ति । ये तु, न लोकमर्यादातिक्रमो नाऽपि शास्त्रातिक्रमस्तत्त्वदृष्टीनां युज्यत इति व्यवहारानुरोधेन सत्त्वं, विचारतः सत्त्वस्याऽसत्त्वस्य चाऽनुपपत्त्याऽनिर्वचनीयत्वं, शास्त्रदृष्ट्या त्वसत्त्वमित्युपगच्छन्ति, तेषामौपनिषदानां मते सत्त्वे सत्यसत्त्वे सत्यवक्तव्यमेव ब्रह्मव्यतिरिक्तस्याऽशेषस्य जगत इति । अत एव "तुच्छाऽनिर्वचनीया च तात्त्विकीति त्रिधा मता माये''त्याधुक्तिरपि तेषां सङ्गच्छते । ___ न चैतेभ्यो व्यतिरिक्तस्य कस्यचिदपि धर्मस्य सत्त्वासत्त्वविधिनिषेधभावालीढस्याऽभ्युपगमोऽस्ति जैनराद्धान्ते तन्त्रान्तरे वा । यत्तु “अवक्तव्यत्वं सत्त्वासत्त्वविधिनिषेधभावालीढमेवाऽर्हन्मतानुयायिभिरभ्युपगम्यते, न चेत्थम्भूतं तद्वेदान्तिभिरभ्युपगतमिति न तादृशधर्मस्य तन्त्रान्तरे प्रसिद्धिः, एवं तद्घटितस्य धर्मान्तरस्याऽपी''ति । तन्मन्दं, यतः सत्त्वासत्त्वयोः परस्परप्रतिक्षेपरूपतया जगतः सत्त्वप्रतिक्षेपेऽसत्त्वस्याऽसत्त्वप्रतिक्षेपे सत्त्वस्यैवाऽऽपत्तिरिति कथमनिर्वचनीयत्वस्य तदुभयाभावरूपस्य प्रसिद्धिरित्याशङ्कय सत्त्वं त्रिकालाबाध्यत्वलक्षणं तदभावं च नाऽसत्त्वं किन्तु क्वचिदप्युपाधौ प्रतीयमानत्वविरहः, तदुभयाभावरूपमेवाऽनिर्वचनीयत्वं प्रपञ्चस्येति समादधतां वेदान्तिनामभिमतमेवाऽवक्तव्यत्वे सत्त्वासत्त्वविधिनिषेधभावालीढतेति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106