Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ सप्तभङ्गीप्रभा प्रवेशस्तादृशस्यैव तस्य द्वितीयभङ्गे प्रवेशोऽन्यादृशस्य वे"ति ? तत्र प्रथमपक्ष एव स्वीक्रियते । प्रथमभड्ने स्वद्रव्यादीनामवच्छेदकविधयाऽपि प्रवेशो द्वितीयभङ्गेऽपि परद्रव्यादीनां तथा प्रवेश इति स्वद्रव्यादीनां निरूपकविधयैव प्रवेश इति प्रकल्प्य प्रदत्तस्य दोषस्य नाऽवकाशः । स्वद्रव्यादीनामवच्छेदकत्वस्य प्रसाधितत्वेन स्यादित्यनेन तस्याऽवभाससम्भवे न तत्परित्यागः समुचितः । मृद्रव्यादिनिरूपितवृत्तित्वमेव मृद्रव्याद्यवच्छेदेन घटादौ प्रथमभङ्गेन प्रतिपाद्यते, मृद्रव्यादिनिरूपितवृत्तित्वाभावश्च पटादौ प्रसिद्धोऽवच्छेदकयोजनामर्हत्येव । तेन “किञ्च सामान्यतो वृत्तित्वाभावोऽप्रसिद्धत्वादेव नाऽवच्छेदकयोजनामर्हती”त्यादि यदुक्तं तन्निरस्तमवगन्तव्यम् । किञ्च, सामान्यतो वृत्तित्वमपि न केवलान्वयि, वृत्तिमदत्यन्ताभावाप्रतियोगित्वस्य केवलान्वयित्वलक्षणत्वेन तस्य स्वाधिकरणवृत्यभावप्रतियोगिनि वृत्तित्वेऽभावात् । यदि चोक्तलक्षणं केवलान्वयिनि कपिसंयोगाभावेऽभावान्न सम्भवति, किन्तु प्रतियोगिव्यधिकरणवृत्तिमदत्यन्ताभावाप्रतियोगित्वमेव केवलान्वयित्वं, तच्च वृत्तित्वसामान्येऽस्तीति विभाव्यते, तदा तादृशं केवलान्वयित्वं वृत्तित्वाभावप्रसिद्धावपि सम्भवतीति वृत्तित्वसामान्याभावेऽप्यवच्छेदकसङ्घटना नाऽसम्भविनीति विभाव्यताम् । स्वद्रव्यादिनिरूपितवृत्तित्वतदभावयोः प्रथमद्वितीयभङ्गप्रतिपाद्ययोः स्वद्रव्यादिपरद्रव्यादि चाऽवच्छेदकं स्यात्पदेन बोध्यत इति । २एवमपि स्वाकूतमाश्रित्य किं नाऽऽकलयति भवानि"त्यादि परमतरहस्यानववोधविलसितमेव । तस्मादुपपद्यते वृत्तित्वरूपमस्तित्वं प्रथमभङ्गप्रतिपाद्यमिति । स्वरूपसत्त्वरूपमस्तित्वमप्युपपत्तिपद्धतिमेति, तथा हि - स्वरूपसत्त्वपक्षे स्यादस्त्येव घट इत्यत्र स्यात्पदेन स्वद्रव्यापेक्षयेत्यर्थस्याऽववोधने उत्पत्तेः पूर्वं नाशानन्तरं मृद्रव्यस्याऽवस्थानेन तदात्मना घटोऽस्त्येवेत्यर्थस्याऽवगतेस्तदानीं घटस्य सर्वथाऽसत्त्वमित्यभ्युपगच्छतां नैयायिकादीनां मतस्य भवति तिरस्कारः । न चोत्पत्तेः पूर्वं नाशानन्तरं कार्यस्य कारणात्मनाऽवस्थानमित्यभ्युपगच्छतः सत्कार्यवादिनः साङ्ख्याचार्यस्य मतादविशेष इति वाच्यम् ।। तन्मते हि उत्पत्तेः पूर्वं सदेव कार्यं नाऽसदित्येकान्तमेव, अस्मन्मते च स्वद्रव्यात्मना सदपि परद्रव्यात्मना न सदित्यस्त्येव विशेषः । एवं यन्मृद्रव्यं घटरूपेण परिणतं तदेव कदाचिच्छरावादिरूपेणाऽपि परिणमत इति शरावादिपरिणामस्याऽपि मृदात्मना घटरूपत्वे तदवस्थायां स्वद्रव्येणाऽस्त्येव घट इति यथा स्याद्वादे निर्वहति न तथाऽन्यमते इत्यपि बोध्यम् । एवं स्वक्षेत्रेणाऽस्त्येव घट इत्यत्र भेदाभेदस्य सम्बन्धमात्रव्यापकत्वेन स्वक्षेत्रेण संयोगदशायां संयोगस्य सम्बन्धिद्वयपर्यायातिरिक्तस्याऽनभ्युपगमेन तदात्मना स्वक्षेत्रेण सह घटस्याऽभेदाद् यदाऽपि तत्क्षेत्रे घटो नास्ति तदाऽपि तत्क्षेत्रस्य विद्यमानतया तद्रूपेण घटस्य सत्त्वमिति तदानीं स्वक्षेत्रेणाऽस्त्येव घट इति यथा स्याद्वादे निर्वहति न तथाऽन्यमते ।। १. पृ. १६ पं. ८ । २. पृ. १६ पं. २७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106