Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 29
________________ सप्तभङ्गप्रभा किञ्चित् प्रयोजनं प्रयासगौरवातिरिक्तमिति विभाव्यते तदा स्यादित्यस्याऽस्तीत्यस्यैवकारस्य चोपादानं न कर्तव्यं स्यात् । परं प्रति घट इत्युक्तेरन्यथानुपपत्त्या घटस्य विधीयमानता लभ्यते । सा च क्रियामाक्षिपति । यत्राऽन्यत् क्रियापदं न श्रूयते इत्यादिवचनाच्चाऽस्तिक्रियैवोपस्थाप्यते, न च सर्वैरेव प्रकारैर्घटस्य विधीयमा सर्वात्मकत्व व्यापकत्व- नित्यत्वाद्यापत्तिभयात् सम्भवतीत्यतः स्यादित्यप्याक्षिप्यते । एवकारस्य त्वनिष्टार्थनिवर्तनायाऽऽक्षेपोऽविगानेन प्रतीत एवेति लाघवप्रकर्षं कथं नाऽऽद्रियते ? | २२ किञ्च, द्वितीयभङ्गे प्रथमभङ्गविषयाधिकरणवचनसङ्घटन एव तदर्थो निषेधः समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकतया नोपपद्यत इति व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकः कल्पितो भवति । कल्पितश्च स न स्वावस्थानसङ्गोचापादकमधिकरणविशेषोपादानं सहते । यतो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावः केवलान्वयी विनिगमनाविरहेणाऽधिकरणविशेषानुपादाने सर्वगततया प्रतिपाद्येन ज्ञातुं शक्यते । अधिकरणविशेषोपादाने च किमयमभाव सर्वत्रैव वर्तते उताऽस्मिन्नेवाधिकरणे ? यदि सर्वत्रैव, अलमधिकरणविशेषोपादानेनाऽधिकरणान्तरव्यावर्तनफलकेन । अथ, अस्मिन्नेवाऽधिकरणे, तदैतद्विन्नेऽधिकरणे सर्वत्रैव व्यधिकरणधर्मेण भावस्य सत्त्वं किमनुभवविरुद्धं स्याद्वादिनामनुमतमित्याद्याशङ्का प्रतिपाद्यानामनुच्छेद्या स्यादिति प्रतिपाद्यानां संशयनिवर्त्तनायाऽऽद्रियमाणा सप्तभङ्गी संशयजनन्येव संवृत्ता । एतेन स्यात्पदं न प्रयुज्यते द्वितीयभङ्गे येन स्वानधिकरणे देशे स्वस्वभावेन समानाधिकरणधर्मेणाऽपि स्वस्याऽभावमादाय द्वितीयभङ्गोपपत्तिः स्यात्, किन्तु परद्रव्यादिना नाऽस्त्येव घट इत्येवं स्वरूप एव द्वितीयभङ्गः । तस्य च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाववोधकताधिकरणविशेषवचनोपबन्धनमन्तरेणैवेति निरस्तम् । अधिकरणविशेषस्याऽनुपदर्शने परद्रव्यादिनेत्येव निराकाङ्क्षमन्वयं नाऽऽसादयति । कोहि नाम सचेताः समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावप्रतियोगित्वं घटस्य सर्वैरपि वादिभिरविगान प्रतीतमवगच्छन्नधिकरणविशेषासम्पृक्तव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावप्रतियोगित्वे स्याद्वादिना द्वितीयभङ्गेन प्रतिपादिते कथमयं समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावप्रतियोगित्वमेव न प्रतिपादयति ? किमर्थं च व्यधिकरणधर्मावच्छन्नप्रतियोगिताकाभावप्रतिपादनेनाऽऽत्मानमायासयतीत्येवं न संशयीतेत्यवश्यमधिकरणविशेषोपादानं कार्यमित्युक्तदोषानुद्धारात् । किञ्च, प्रथमभङ्गे स्वद्रव्येण घटोऽस्ति, स्वक्षेत्रेण घटोऽस्तीत्यादौ यथा परस्परं विशेषः प्रतीयते व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयकत्वे च द्वितीयभङ्गस्य न तथा विशेषः प्रतीयेत । यथा परद्रव्येण घटो नास्तीत्येवंरूपेण प्रतीयमानोऽभावो व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकतया केवलान्वयी तथा परक्षेत्रादिनाऽपि घटाभाव इति किंकृतो विशेष: ? न च समनियतानां समानप्रतियोगिकानां चाऽभावानामस्ति प्रतियोग्यधिकरणविशेषकृतो विशेषः, न च तेषां प्रतियोगिताभेदकृतोऽस्ति विशेष इति शक्यम् । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकोऽपि चेदभावः प्रामाणिकस्तदा तादृशाभावप्रतियोगिताः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106