Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ १४ सप्तभङ्गीप्रभा सर्वेषां परद्रव्यादीनां धर्मविधयैवाऽवच्छेदकत्वं सम्भवितं स्यात्पदद्योत्यमिति वाच्यम् । एवं सति परद्रव्यादीनां सर्वेषां परभावत्वेनैकविधत्वमेव स्यात् । न चैवमभ्युपगमेऽप्यभीष्टार्थो भवत उपपद्यते । न च, द्वितीयभड्रेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावप्रतिपादनमेव ममाऽभीष्टं, तच्च परद्रव्यादीनां वृत्तित्वात्मके प्रतियोगिन्यवर्तमानानामवच्छेदकत्वाभ्युपगमेन निर्वहत्येवेति वाच्यम् । एवं सति स्वद्रव्यादिना घटोऽस्त्येवेतिवत् स्वद्रव्यादिना घटो नास्त्येवेत्यपि भङ्गो यथार्थः स्यात्, परद्रव्यादीनामिव स्वद्रव्यादीनामपि घटनिष्ठवृत्तित्वेऽसत्त्वेन व्यधिकरणधर्मत्वाविशेषात् । प्रत्युत परभावान्तर्गतेन वृत्तितात्वेन द्वितीयभङ्गप्रवृत्तिर्न स्यात् । अथाऽऽधेयताया आधेयस्वरूपत्वेनाऽऽधेयस्य घटस्य ये सम्बन्धिनः स्वद्रव्यादयस्ते तदात्मकवृत्तित्वस्याऽपीति न तेषां व्यधिकरणत्वं किन्तु घटासंबन्धिनां परद्रव्यादीनामेवेति द्वितीयभङ्गविषयो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावो निराबाध एवेति चेत्, तत्कि वृत्तित्वं सर्वथा घटादभिन्नमेवाऽभिमतमायुष्मतः ? ओमिति चेत्, तथा सति यदर्थमयमारम्भः सोऽयमनेकान्तवादो विशीर्येत । एवं सति प्रथमभङ्गार्थोऽपि न घटनामियात्, अस्त्यर्थस्य हि घटार्थादविशेषे घटे यथा घटत्वनिष्ठावच्छेदकतानिरूपितत्वादिकं वाधितं तथा तदात्मके वृत्तित्वेऽपि । __ न च, घटतदवृत्तित्वयोर्घटत्ववृत्तितात्वाभ्यां भेदः, स्वरूपतश्चाऽभेद इति भेदाभेद एव, तत्राऽभेदमाश्रित्य घटसम्वन्धिनां स्वद्रव्यादीनां घटवृत्तित्वस्य सम्बन्धित्वं घटासम्बन्धिनां च परद्रव्यादीनामसम्बन्धित्वमिति नोक्तदोष इति वाच्यम् । एवं सति भेदमवलम्ब्य स्वद्रव्यादीनां घटवृत्तित्वस्याऽसम्वन्धित्वमपीति कृत्वा व्यधिकरणत्वमपि तेषाम् । तथा च तानादायाऽपि द्वितीयभङ्गप्रवृत्तौ स्वद्रव्यादिना घटोऽस्त्येव, स्वद्रव्यादिना घटो नास्त्येवेत्येवंप्रकारेणाऽपि सप्तभङ्गी साधूपपादिता भवता । न च, कथमेवं स्यात् ? नोकदैवैकेन वक्ौकस्मिन्नेव सप्तभङ्ग्यात्मके महावाक्ये प्रयोक्तव्ये एकस्यैवैकस्मादेव प्राधान्येन गुणभावे च भेदोऽभेदो वाऽऽस्थातुं शक्य इति प्रथमभङ्गोपपत्त्यर्थं घटेन सह तदवृत्तित्वस्याऽभेदं य आश्रितवान् स कथं द्वितीयभङ्गोपपत्त्यर्थं तयोर्भेदमाश्रयेद्? इति वाच्यम् । प्रथमभोपपत्त्यर्थमपि तयोर्भेदस्यैवाऽऽश्रितत्त्वात् । तथा हि - घटस्य न स्वरूपतो भूतलादिदेशनिरूपितत्वं, न वा कालविशेषाद्यवच्छेदकतानिरूपितत्वं, नैव च घटत्वादिनिष्ठावच्छेदकतानिरूपितत्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106