________________
१४
सप्तभङ्गीप्रभा
सर्वेषां परद्रव्यादीनां धर्मविधयैवाऽवच्छेदकत्वं सम्भवितं स्यात्पदद्योत्यमिति वाच्यम् ।
एवं सति परद्रव्यादीनां सर्वेषां परभावत्वेनैकविधत्वमेव स्यात् । न चैवमभ्युपगमेऽप्यभीष्टार्थो भवत उपपद्यते ।
न च, द्वितीयभड्रेन व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावप्रतिपादनमेव ममाऽभीष्टं, तच्च परद्रव्यादीनां वृत्तित्वात्मके प्रतियोगिन्यवर्तमानानामवच्छेदकत्वाभ्युपगमेन निर्वहत्येवेति वाच्यम् ।
एवं सति स्वद्रव्यादिना घटोऽस्त्येवेतिवत् स्वद्रव्यादिना घटो नास्त्येवेत्यपि भङ्गो यथार्थः स्यात्, परद्रव्यादीनामिव स्वद्रव्यादीनामपि घटनिष्ठवृत्तित्वेऽसत्त्वेन व्यधिकरणधर्मत्वाविशेषात् । प्रत्युत परभावान्तर्गतेन वृत्तितात्वेन द्वितीयभङ्गप्रवृत्तिर्न स्यात् ।
अथाऽऽधेयताया आधेयस्वरूपत्वेनाऽऽधेयस्य घटस्य ये सम्बन्धिनः स्वद्रव्यादयस्ते तदात्मकवृत्तित्वस्याऽपीति न तेषां व्यधिकरणत्वं किन्तु घटासंबन्धिनां परद्रव्यादीनामेवेति द्वितीयभङ्गविषयो व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावो निराबाध एवेति चेत्,
तत्कि वृत्तित्वं सर्वथा घटादभिन्नमेवाऽभिमतमायुष्मतः ? ओमिति चेत्,
तथा सति यदर्थमयमारम्भः सोऽयमनेकान्तवादो विशीर्येत । एवं सति प्रथमभङ्गार्थोऽपि न घटनामियात्, अस्त्यर्थस्य हि घटार्थादविशेषे घटे यथा घटत्वनिष्ठावच्छेदकतानिरूपितत्वादिकं वाधितं तथा तदात्मके वृत्तित्वेऽपि ।
__ न च, घटतदवृत्तित्वयोर्घटत्ववृत्तितात्वाभ्यां भेदः, स्वरूपतश्चाऽभेद इति भेदाभेद एव, तत्राऽभेदमाश्रित्य घटसम्वन्धिनां स्वद्रव्यादीनां घटवृत्तित्वस्य सम्बन्धित्वं घटासम्बन्धिनां च परद्रव्यादीनामसम्बन्धित्वमिति नोक्तदोष इति वाच्यम् ।
एवं सति भेदमवलम्ब्य स्वद्रव्यादीनां घटवृत्तित्वस्याऽसम्वन्धित्वमपीति कृत्वा व्यधिकरणत्वमपि तेषाम् । तथा च तानादायाऽपि द्वितीयभङ्गप्रवृत्तौ स्वद्रव्यादिना घटोऽस्त्येव, स्वद्रव्यादिना घटो नास्त्येवेत्येवंप्रकारेणाऽपि सप्तभङ्गी साधूपपादिता भवता ।
न च, कथमेवं स्यात् ? नोकदैवैकेन वक्ौकस्मिन्नेव सप्तभङ्ग्यात्मके महावाक्ये प्रयोक्तव्ये एकस्यैवैकस्मादेव प्राधान्येन गुणभावे च भेदोऽभेदो वाऽऽस्थातुं शक्य इति प्रथमभङ्गोपपत्त्यर्थं घटेन सह तदवृत्तित्वस्याऽभेदं य आश्रितवान् स कथं द्वितीयभङ्गोपपत्त्यर्थं तयोर्भेदमाश्रयेद्? इति वाच्यम् ।
प्रथमभोपपत्त्यर्थमपि तयोर्भेदस्यैवाऽऽश्रितत्त्वात् । तथा हि - घटस्य न स्वरूपतो भूतलादिदेशनिरूपितत्वं, न वा कालविशेषाद्यवच्छेदकतानिरूपितत्वं, नैव च घटत्वादिनिष्ठावच्छेदकतानिरूपितत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org