________________
सप्तभङ्गीप्रभा
१३
एवं च निषेधस्य भिन्नप्रतियोगिकत्वाववोधनेन परस्परनिषेधरूपत्वलक्षणविरोधाभावतो यथैकस्मिन्नधिकरणे विधिनिषेधयोः प्रतीतिरुपपादिता भवति स्याद्वादेन, तथा विरुद्धयोरपि विभिन्नाधिकरणकत्वावबोधनेन प्रतीतिरुपपादिता स्यादेव । तथा च स्यात्पदादन्यतो वाऽधिकरणभेदोपदर्शनेन घटोऽस्ति, पटो नास्ति, घटोऽस्ति पटो नास्ति च, अवक्तव्यः, घटोऽस्ति अवक्तव्यश्च, पटो नास्ति अवक्तव्यश्च, घटोऽस्ति पटो नास्ति अवक्तव्यश्चेत्येषाऽपि सप्तभङ्ग्यस्खलितप्रचारा स्यात् । एवं मठादिरूपभिन्नाधिकरणोपनिबन्धनाऽपि सा स्यादित्यव्यवस्थाप्रसङ्ग एकान्ताविशेषश्चोभयत्राऽपि ।
ननु कथमेवं भविष्यति, निर्विशेषितस्य वृत्तित्वस्य केवलान्वयित्वेन तदभावाप्रसिद्ध्या तदवबोधकस्य द्वितीयभङ्गस्याऽसम्भवादिति ? न, भावानववोधात् । वाक्यमात्रेऽनिष्टार्थनिवृत्तयेऽवधारणार्थकैवकारस्याऽवश्यंभावेन घटो वृत्तितावानेत्यर्थकेन घटोऽस्त्येवेति प्रथमभङ्गेन सर्वाधिकरणनिरूपितसर्वधर्मसम्वन्धावच्छिन्नवृत्तितामात्रं मा प्रापद् घटे इत्येतदर्थं निरूपकाधिकरणावच्छेदकधर्मसंसर्गविशेषाणां वृत्तित्वविशेषणतया वाच्यतया तादृशविशेषणविशिष्टस्यैवाऽकेवलान्वयिनो वृत्तित्वस्याऽभावो भिन्नाधिकरणे द्वितीयभड्नेन वोध्यत इत्युक्तानिष्टसप्तभङ्गीप्रसञ्जनस्याऽभिप्रायः ।
वृत्तित्वाभावस्याऽप्रसिद्धौ च शशशृङ्गस्येव तस्य न केनाऽपि समं विरोध इति कस्योन्मूलनं निषेध्य भिन्नत्वाववोधकं स्यात्पदं भङ्गे निवेशयता भवता क्रियेतेत्यत्राऽपि दीयतां दृष्टिः । तस्माद् यत्किञ्चिदेतत् ।
नाऽपि वृत्तित्वनिष्ठप्रतियोगिता स्यात्पदवोध्यस्याऽन्वय इति द्वितीयपक्षोऽपि युक्तः, वृत्तिभास्यस्य वृत्तिभास्येनैवाऽन्वय इति नियमेन वृत्तित्वस्य नञर्थेऽभावे आकाङ्क्षया भासमाने प्रतियोगित्वसंसर्गे वाचकतापक्षे स्यात्पदोपस्थितस्य कथञ्चिदर्थस्याऽन्वयासम्भवात् ।
न च, वृत्तित्वस्य कथञ्चिदर्थान्वितप्रतियोगितासम्बन्धेनाऽभावान्वये नास्तीत्यस्य तात्पर्यमित्यव. वोधकतैव स्यात्पदस्य, न तु कस्यचिदर्थस्योपस्थापकत्वं, द्योतकतापक्षस्याऽप्युक्तार्थ एव तात्पर्यमिति वाच्यम् ।
तथाऽप्यसम्भवात् । प्रथमभङ्गे स्याच्छब्देन वृत्तित्वे स्वद्रव्यक्षेत्राद्यधिकरणानां निरूपितत्वमेव द्योतितमिति द्वितीयभङ्गेऽपि तेन परद्रव्यक्षेत्रादीनां निरूपितत्वमेव द्योतनीयम् । न च तस्य प्रतियोगितायां सम्भवः, तस्यामवच्छेदकतानिरूपितत्वाभावनिरूपितत्वयोरेवोपगमात् ।
यदाऽपि देशवृत्तितायां कालरूपस्याऽधिकरणस्य, कालवृत्तितायां च देशरूपस्याऽधिकरणस्याऽवच्छेदकत्वमिति नियममभ्युपेत्य स्वद्रव्यादिनिष्ठावच्छेदकतानिरूपितत्वमेव प्रथमभङ्गे स्यात्पदेन वृत्तित्वे द्योत्यत इति विभाव्यते, तदाऽपि तादृशपरद्रव्यादिनिष्ठवछेदकतानिरूपितत्वस्य प्रतियोगितायां न सम्भवः, धर्मसंसर्गविधयैव तदवच्छेदकत्वस्याऽभ्युपगमात्, न तु देशकालादिविधया । न चाऽवच्छेदकत्वानां वैलक्षण्यमपलपितुं शक्यं, निमित्तभेदेन तद्वैलक्षण्यस्याऽनुभूयमानत्वात् ।
न च, प्रथमभङ्गेऽस्तु यथातथा स्वद्रव्यादीनामवच्छेदकत्वं स्याच्छब्दद्योत्यं, द्वितीयभङ्गे त्वविशेषात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org