________________
सप्तभङ्गप्रभा
धर्मवदेव वस्तित्यादिरूपाया एकस्या एव सप्तभङ्गया मुख्यत्वं स्यात् । यदि च विशेषरूपेण संशयजिज्ञासयोः विशेषरूपनिर्णायकविशेषोक्तित एव निवृत्तिरिति विभाव्यते तदा सामान्याववोधकस्यात्पदलाञ्छितत्वं सप्तभङ्ग्या नाऽभ्युपेयम् ।
१२
न चैवमेवाऽस्त्विति वाच्यम् । एवं च स्याद्वादितैव हीयेत ।
किञ्च, वृत्तित्वं यद्यस्तित्वं प्रथमभङ्गप्रतिपाद्यं तदा वृत्तित्वाभावरूपमेव नास्तित्वं द्वितीयभङ्गेन प्रतिपाद्यमिति वाच्यम् । तत्र स्यात्पदबोध्यस्य कथञ्चिदित्यस्य किं प्रतियोगितावृत्तित्वेनाऽन्वय उत वृत्तित्वनिष्ठप्रतियोगितया, किंवा वृत्तित्वाभावेन ? नाऽऽद्यः, विरोधाघ्रातत्वात् । कथञ्चिदस्तित्वस्य यथा सर्वथास्तित्वनास्तित्वे विरुद्धे तथा कथञ्चिदस्तित्वस्याऽभावोऽपि विरुद्धः, विशेषविरोधित्वस्य विशेषाभावे सामान्याभावे चाऽविशेषात् ।
न च, द्वितीयभङ्गघटकेन स्यात्पदेन प्रथमभङ्गार्थापेक्षानिमित्तातिरिक्तापेक्षानिमित्तमेव बोध्यते, तथा च प्रथमभङ्गप्रतिपाद्यस्य स्वद्रव्यादिना वृत्तित्वस्य द्वितीयभङ्गप्रतिपाद्याभावप्रतियोगिनश्च परद्रव्यादिना वृत्तित्वस्य भिन्नत्वमेवेति तद्विशेषस्य तद्विशेषाभाव एव विरोधी, न तु विशेषान्तराभाव इति न विरोधाघ्रात ति वाच्यम् ।
एवं सति सप्तभङ्गयां मूल एव कुठारो व्यापारितः स्यात् । एकस्यैव धर्मस्य विधिनिषेधकल्पनया सप्तभङ्गी भवतामनुमता । न चैवं तथा, घटत्वावच्छिन्नवृत्तित्व-पटत्वावच्छिन्नवृत्तित्वाभावयोरेकधर्मापेक्षया विधिनिषेधरूपत्वाभावात् 1
न च, स्यात्पदार्थानन्तर्भावे प्रथमभङ्गप्रतिपाद्यस्य वृत्तित्वसामान्यस्य द्वितीयभङ्गप्रतिपाद्यस्य च वृत्तित्वसामान्याभावस्य विधिनिषेधरूपत्वमस्त्येव तदाश्रित्यैवोक्तानुमतिः, स्यात्पदार्थान्तर्भावेण च प्रथमभङ्ग - प्रतिपाद्य-द्वितीयभङ्गप्रतिपाद्यनिषेधप्रतियोगिनोश्च भिन्नत्वव्यवस्थापनत उभयभङ्गार्थयोरविरोधः ख्यापितो भवति, तदर्थमेव च स्यात्पदस्य तत्र तत्र भङ्गे प्रवेश इति वाच्यम् ।
नूनं स्याद्वादानभिज्ञो भवान्, यतो विरुद्धयोरपि विभिन्नावच्छेदेनैकाधिकरणे सत्त्वस्य प्रदर्शनेनैकावच्छेदेनैकाधिकरणावृत्तित्वरूपविरोधस्य रक्षणमेव स्याद्वादकृत्यम्, न तूक्तदिशा विरोधिस्वरूपयोरुन्मूलनेन विरोधध्वंसनम् । तथैव किं न स्यादिति चेद् न, अव्यवस्थाप्रसङ्गात् । तथा भावाभावयोः परस्परनिषेधरूपत्वलक्षणो विरोधः सन्नपि न प्रतीतिविघातकृत्, भिन्नाधिकरणेऽ-विरलक्रमेण यौगपद्येन च तयोः प्रतीयमानत्वात् । किन्त्वेकमधिकरणमाश्रित्य स तथा, तत्राऽपि सहानवस्थानलक्षणविरोधमाहात्म्यादेव स तथा, एकाधिकरणे भावाभावयोः प्रतीतौ तस्यैव व्याहतेः, न तु परस्परनिषेधरूपत्वस्य, तस्याऽधिकरणाऽघटितत्वात् । यथा हि - विभिन्नाधिकरणयोः प्रतीयमानौ भावाभावौ परस्परनिषेधरूपतां न जहतस्तथैकाधिकरणेऽपि । सहानवस्थानं तु जहत एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org