________________
सप्तभङ्गीप्रभा
तद्रतवृत्तित्वे च तत्सर्वस्य सत्त्वमिति वृत्तित्वे भूतलादिदेशनिरूपितत्वाद्यवबोधकस्य प्रथमभङ्गस्य सुस्पष्टैव तद्भेदालम्बनाप्रवृत्तिः ।
न च, प्रथमभङ्गे स्वद्रव्यादिपदोत्तरतृतीयया स्वद्रव्यादिसम्वन्धितया यादृगर्थः प्रतीयते स्यात्पदेन बोध्यते वा, तादृगर्थनिष्ठावच्छेदकतानिरूपितत्वमेव द्वितीयभङ्गे तृतीयया स्यात्पदेन वा बोध्यते प्रतियोगितायां, तात्पर्यस्य तथैवोपपत्तेः । एवं च स्वद्रव्यादिनिरूपितत्वादीनां वृत्तित्वे सत्त्वेन समानाधिकरणधर्मत्वं परद्रव्यादिनिरूपितत्वादीनां तत्राऽसत्त्वेन व्यधिकरणधर्मत्वमिति परद्रव्यादिनिमित्ताश्रयणेनैव द्वितीयभङ्गस्य व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपरत्वं निर्वहतीति वाच्यम् । मतस्याऽऽग्रहग्रहोल्लसितत्वात् । तथा हि - को नाम प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमाविति न्याये जाग्रति एकजातीयाया एव विभक्तेः समानस्य स्यात्पदस्य वा प्रतियोग्यन्वयवोधकवाक्येऽन्यार्थकत्वमभावान्वयबोधकवाक्ये चाऽन्यादृशार्थकत्वमभ्युपगच्छेच्छाव्दमर्यादाभिज्ञः ? कथं चैवमप्येकान्तवादिव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाभ्युपगन्तृवेदान्त्यादिमतादविशेषः परिहृतो भवति ? स्वद्रव्यादीनां वृत्तित्वनिष्ठप्रतियोगितायाः साक्षादवच्छेदकत्वं विवक्षित्वा परेणाऽऽपाद्यमानः स्वद्रव्यादिना नास्त्येव घट इति द्वितीयभङ्गः कथं च परिहरणीयः ? यावता लाघवाख्यस्तर्कस्तादृशार्थविवक्षामेव दृढमूलां विदधाति, तिरस्करोति च निरूपितत्वादिनिष्ठावच्छेदकतानिरूपितत्वविवक्षां प्रतिकूलतामापन्नो गौरवाख्यस्तर्कः, तस्मान्नाऽयं पक्षः श्रेयान् ।
१५
नाऽपि स्यात्पदवोध्यस्य कथञ्चिदर्थस्य वृत्तित्वाभावेनाऽन्वय इति तृतीयपक्षो मूर्धाभिषिक्तो विचारचूलामवलम्बते । तथा हि - किं यादृशस्य कथञ्चिदर्थस्य प्रथमभङ्गे प्रवेशस्तादृशस्यैव तस्य द्वितीयभङ्गेऽपि प्रवेशः, अन्यादृशस्य वा ? नाऽऽद्यो, यतः प्रथमभङ्गे स्वद्रव्यादीनां निरूपितत्वं स्वभावस्य च स्वनिष्ठावच्छेदकतानिरूपितत्वं प्रविष्टं तादृशं च परद्रव्यादीनां निरूपितत्वं परभावस्य च स्वनिष्ठावच्छेदकतानिरूपितत्वं वृत्तित्वाभावे किञ्चिदनिरूपिते बाधितमेव ।
ननु प्रथमभङ्गे यथातथाऽस्तु, द्वितीयभङ्गे तु सर्वेषामेव परद्रव्यादीनामवच्छेद्यत्वमेव वृत्तित्वाभावे भासते, न च तदसम्भवि, स्याद्वादे सर्वेषामेव धर्माणामव्याप्यवृत्तित्वेन वृत्तित्वाभावस्याऽप्यव्याप्यवृत्तितया परद्रव्याद्यवच्छेद्यत्वस्य सम्भवादिति चेत्, एवं सत्यन्यादृशस्य वेति द्वितीयपक्ष आदृतः स्यात् । सोऽपि न विचारं सहते । तथा हि - तदधिकरणस्यैव देशकालादेर्देशकालादिविधया तद्वर्तिन एव धर्मस्य धर्मविधया च तन्निष्ठधर्मस्याऽवच्छेदकत्वमिति नियमो भवताऽप्यभ्युपगन्तव्यः, अन्यथा प्रथमभङ्गप्रतिपाद्यस्य वृत्तित्वस्याऽवच्छेदकत्वं स्वद्रव्यादीनामिव परद्रव्यादीनामपि स्यात्, नियामकाभावात् ।
न च प्रतीतिरेवाऽत्र नियामिका । प्रतीयते तावत् प्रथमभङ्गेन स्वद्रव्यादीनामधिकरणानामेवाऽवच्छेदकत्वं वृत्तित्वस्य, न तु परद्रव्यादीनाम् । द्वितीयभङ्गेनाऽपि च परद्रव्यादीनामनधिकरणानामेव वृत्तित्वाभावावच्छेदकत्वं प्रतीयते, न त्वधिकरणानामपि स्वद्रव्यादीनाम् । किमत्र कुर्मः ? अनुभवस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org