________________
सप्तभडीप्रभा
सर्वैरपि वादिभिः प्रमाणतयाऽम्युपगन्तव्यत्वात्, अनुभवापलापे विषयव्यस्थैवोच्छिद्यतेति वाच्यम् ।
___ अभिधानाभिधेयप्रत्ययानां हि समानशब्दाभिलाप्यत्वेन येनैव शब्देनाऽभिधानमभिधीयते तेनैवाऽभिधेयः प्रत्ययश्च । एवं च स्यादस्त्येव घटः स्यान्नास्त्येव घट इत्यभिधानमेव स्याद्वादतदर्थतत्प्रत्ययानाम् । न च तत्राऽवच्छेदकत्वरूपस्याऽर्थस्याऽन्यस्य वा स्वशब्देनोल्लेखोऽस्ति, येन प्रतीतिरपि तत्तथोल्लिखेत् । न च तथाऽनुल्लिखन्त्यपि प्रतीतिरेकत्राऽनुल्लिख्यमाने विवादाध्यासिते प्रमाणं, नाऽन्यत्रेत्यत्र पक्षपातादतिरिक्तं प्रमाणम् । यद्यवच्छेदकत्वं परद्रव्यादीनां केनचित् प्रमाणान्तरेण सिद्ध्येत् तदेव द्वितीयभरुन तद्विषया प्रतीतिरुल्लसेत्, नाऽन्यथेत्यकामेनाऽप्यास्थेयम् ।
किश्श, सामान्यतो वृत्तित्वाभावोऽप्रसिद्धत्वादेव नाऽवच्छेदकयोजनामर्हति । नहि निर्विशेपितं वृत्तित्वसामान्यं न केवलान्वयि, न ह्यप्रसिद्धोऽप्यवच्छेद्यः । तथा सति शशशृङ्गादेरप्यवच्छेद्यत्वं स्यात् । यत्किञ्चिदवृत्तित्वाभावस्त्वच्छेदकयोजनामन्तरेणाऽप्युपपद्यमानो न स्याद्वादमपेक्षत इत्युभयतः पाशा रज्जुः ।
___ न च, प्रथमभड्नेन यादृशं वृत्तित्वमवबोधितं तादृशस्यैव वृत्तित्वस्याऽभावो द्वितीयभड्रेन प्रतिपाद्यते, न तु वृत्तित्वसामान्यस्याऽभावः, नाऽप्यन्यस्यैव यस्य कस्यचिद् वृत्तित्वस्याऽभावः, तादृशवृत्तित्वाभावश्च तादृशवृत्तित्वात्मकप्रतियोग्यधिकरणेनाऽवच्छेदकयोजनामन्तरेणोपपद्यते इति नोक्तदोषद्वयावकाश इति वाच्यम् ।
एवं सति स्यात्पदद्वययोजनं कर्त्तव्यमापतितं द्वितीयभङ्गे, तथा सत्येवैकेन स्यात्पदेन वृत्तित्चे स्वद्रव्यादिनिरूपितत्वादिकं द्वितीयेन चाऽभावे परद्रव्याद्यवच्छेद्यत्वं प्रतिपादितं स्यात्, नाऽन्यथा । अन्यथाऽपि वा द्वितीयभङ्गे वृत्तित्वविशेषप्रतिपत्तौ प्रथमभङ्गेऽपि तथैव स्यादिति तत्र स्यात्पदयोजना न कार्येति ।
न च, स्यात्पदस्य द्योतकत्वमेवाऽभ्युपगम्यतेऽस्माभिरिति प्रथमभने स्यात्पदसमभि-व्याहारादस्तिपदस्य स्वद्रव्यादिनिरूपितत्वविशिष्टवृत्तित्वप्रतिपादकत्वं, द्वितीयभने च नाऽस्तीत्यत्र नञोऽस्तेश्च स्यात्पदसमभिव्याहारबलात् प्रतिनियतार्थप्रतिपादकत्वमित्यभ्युपगमे नोक्तदोष इति वाच्यम् ।
यतो ययोर्विरोधस्तयोरवच्छेदकभेदेनैकत्रोपपादानमिति यत्स्याद्वादस्य कृत्यं तदुक्ताभ्युपगमे भज्येत । द्वितीयभङ्गप्रतिपाद्यस्य ह्यभावस्य प्रतियोगि न वृत्तित्वसामान्यं किन्तु स्वद्रव्यादिनिरूपितत्वादिविशिष्टं वृत्तित्वम् । तादृशस्य चाऽभावस्य न वृत्तित्वसामान्यं विरोधि । न च सोऽपि वृत्तित्वसामान्यस्य विरोधी, सामान्यवत्ताबुद्धिं प्रति विशेषाभाववत्तानिश्चयस्य, विशेषाभाववत्तावुद्धिं प्रति सामान्यवत्तानिश्चयस्य चाऽप्रतिवन्धकत्वात् । एवं च प्रथमभङ्गे स्यात्पदाप्रयोगे वृत्तित्वसामान्यस्यैव प्रतीतिरिति तस्यैवाऽभावो द्वितीयभङ्गप्रतिपाद्यः, तयोरेव चैकत्र समावेशोपपत्त्यर्थं स्याद्वाद एपितव्यः । स च न सम्भवति, वृत्तित्वसामान्याभावस्याऽप्रसिद्धेः ।
न चाऽलीके तस्मिन्नवच्छेद्यत्वादियोजना घटते इति पूर्वपक्षाभिप्रायमवुद्ध्वैव यत्किञ्चिदुत्तरमभिदधानो भवान् कथं न प्रेक्षावतामुपहसनीयः ? एवमपि स्वाकूतमाश्रित्य किं नाऽऽकलयति भवान्, यदुत द्वितीयभङ्गप्रतिपाद्यस्य स्वद्रव्यादिनिरूपितत्वादिविशिष्टवृत्तित्वाभावस्य तादृशं वृत्तित्वं प्रतियोगीति तयोर्विरुद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org