________________
सप्तभङ्गीप्रभा
योरेकत्र समावेशार्थं यथा द्वितीयभड्ने तादृशवृत्तित्वाभावस्य परद्रव्यादिकमवच्छेदकं तथा प्रथमभङ्गेऽपि तादृशवृत्तित्वस्य किञ्चिदवच्छेदकान्तरमिति ? तस्मात् प्रथमभङ्गप्रतिपाद्यमस्तित्वं न वृत्तित्वमिति स्थितम् ।
नाऽपि स्वरूपसत्त्वमस्तित्वम् । तथा हि - तत्किं घटादिकमेव, ततो व्यतिरिक्तं वा ? न तत्र द्वितीयः, तस्य वृत्तित्वसमशीलतायामेव कथञ्चिदर्थस्वद्रव्यादिनिरूपितत्वाद्यन्वययोग्यतयोक्तदोषानतिक्रमात् । तस्य वृत्तित्वासमशीलतायां न केवलं कथञ्चिदर्थान्वयायोग्यत्वं विविच्य दर्शयितुमशक्यत्वेनाऽनिर्वक्तव्यत्वमपि दोषः । उभयत्र च स्वरूपसत्त्वं चाऽतिरिक्तं चेति व्याघातो दुर्निवारः । नाऽपि प्रथमः, तथा सत्यनधिकार्थकस्याऽस्तिपदस्याऽप्रयोगः प्रसज्येत । अन्यथा विनिगमनाविरहात् सर्वेऽपि पर्यायाः प्रयोक्तव्याः प्रसज्येरन् ।
न चोक्तदोषभयान्न प्रयोक्तव्यमेवाऽस्तिपदमिति वाच्यम् ।
यथा हि घटपदसमभिव्याहारेऽस्तिपदस्याऽनधिकार्थत्वं तथाऽस्तिपदसमभिव्याहारं घटपदस्याऽप्यनधिकार्थत्वमिति विनिगमनाविरहाद् द्वयोरप्यप्रयोक्तव्यत्वप्रसक्तो केवलस्यैवकारस्याऽप्रयोक्तव्यत्वमेवेति नियमेनैवकारस्याऽप्यप्रयोक्तव्यत्वप्रसक्तौ द्योतकस्य पदान्तरसमभिव्याहार एवाऽर्थविशेषावबोधनाय प्रयोक्तव्यत्वमिति नियमेन स्यात्पदस्याऽप्यप्रयोक्तव्यत्वप्रसक्तौ प्रथमभङ्गस्य सर्वथापहारे तत्पूर्वकस्य द्वितीयभङ्गादेरप्यभावे साधूपपादिता सप्तभङ्गी भवता ।
न च, स्याद् घट एव, स्याद् घटो नैवेत्येवमेका सप्तभङ्गी अस्तिपदविनिर्मुक्ता, अन्या च स्यादस्त्येव स्यान्नास्त्येवेत्येवं द्वितीया, ताभ्यां च मिलित्वा विशिष्टवोधोऽस्त्विति वाच्यम् ।
यथा हि स्याद् घट एवेत्यादिसप्तभङ्ग्याः स्यात् कलश एवेत्यादिसप्तभझ्या सह न विशिष्टार्थवोधकत्वम्, अनधिकार्थत्वात्, तथा स्यादस्त्येवेत्यादिसप्तभङ्गया अपि समं समानमेव, युक्तेस्तौल्यात् ।
न च, घटपदसमभिव्याहार एवाऽस्तिपदस्य घटस्वरूपार्थकत्वं तदसमभिव्याहारे चाऽविशेषात् पटस्वरूपाद्यर्थकत्वमपीति स्यादस्त्येवेति सप्तभङ्गीमात्रेण न नियतार्थावगतिरिति सेयं सप्तभङ्गी नियतार्थावबोधनाय स्याद् घट एवेत्यादि सप्तभङ्गीमपेक्षत एवेति वाच्यम् ।
तर्हि विशिष्टार्थावबोधफलकामुकेन भवता त्यज्यतामियं तदप्रसवित्री । नहीयं स्वतन्त्रा हठाद्रवन्तमुपसर्पति । तदनपेक्षा स्वेष्टदोहदसमर्था स्याद् घट एवेत्यादिसप्तभङ्ग येवैका गृह्यताम् ।
एवमेवाऽस्तु, का नो हानिः? कस्याश्चिदपि सप्तभङ्गयाः सिद्धौ सिद्धं नः समीहितमिति चेत्, अस्तिपदार्थप्रदर्शनप्रवृत्तस्तत्प्रदर्शनसामर्थ्याभावेऽस्तिपदस्य सर्वथाऽपहारेण स्वेष्टसिद्धिं मन्यमानो भवान् नूनं जितमन्दाक्षः । न च मनोरथसिद्धिरप्येतावता । तथा हि - पराववोधनाय प्रवृत्तं वाक्यमुद्देश्यविधेयभावेनैवाऽर्थं बोधयति, नोद्देश्यमानं, नाऽपि विधेयमात्रम् । उद्देश्यमात्रस्य स्वरूपतोऽभिधाने संशयाद्यनुच्छेदात् । विधेयमात्रस्य तथाऽभिधाने च न तदवगतिसम्भवः परस्य । अपूर्वस्याऽर्थस्य सिद्धार्थक्रोडीकारेणैवाऽवगमात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org