________________
सप्तभङ्गप्रभा
एवं च स्याद् घट एवेत्यत्र घट इति पदमुद्देश्यवचनं विधेयवचनमुभयवचनं वा ? प्रथमे, किं तत्र विधेयवचनमिति वाच्यं ? न तावत् स्यादिति, तस्य द्योतकत्वेन विधेयवचनत्वाभावात् । वाचकत्वेऽपि तदर्थसंसृष्टस्याऽन्यपदार्थस्यैव विधेयत्वात् । नाऽपि एवेति, तदर्थस्याऽवधारणस्य पदार्थान्तरान्वयमन्तरेण स्वरूपसत्तामेवाऽलभमानस्य विधेयत्वासम्भवात् । न च पदान्तरं श्रूयते यस्य विधेयवचनत्वं सम्भाव्येताऽपि । नाऽपि द्वितीयः, उद्देश्यवचनत्वस्य पदान्तरे वक्तव्यतापातात् । न चोक्तदिशा तस्य सम्भवः । नापि तृतीयः, यो ह्युद्देश्यविधेयभाव उद्देश्यवचनस्य विधेयवचनात् परत्वं विधेयवचनस्य चोद्देश्यवचनात् पूर्वत्वं न सहते स कथं तयोरैक्ये स्वस्वरूपमासादयेत् ? सिद्धत्वनियतं द्देश्यत्वं साध्यत्वनियतं च विधेयत्वं कथमेकस्मिन्नर्थे परस्परनिरूप्यनिरूपकभावापन्नं घटनामियात् ?
१८
न च घटत्ववान् घटपदस्यार्थः । तत्र घटत्वं विधेयः, आश्रयश्चोद्देश्य इति कृत्वा विभिन्नाधिकरणत्वमुद्देश्यत्वविधेयत्वयोर्भविष्यतीति वाच्यम् ।
तावताऽप्युक्तदोषस्याऽपरिहारात् ।
दोषान्तरमप्याकलयतु भवान् । तथा हि- विधेयत्वं नियमेन किञ्चित्सम्वन्धावच्छिन्नं भवति । स च सम्बन्ध आकाङ्क्षाभास्यो, न तु वाच्यः । घटत्वतदाश्रययोश्च सम्वन्धो वाच्यः सन् कथमाकाङ्क्षाभास्यः । स्यात् ? एवं शाब्दबोधीया योद्देश्यता या च विधेयता तदुभे अप्याकाङ्क्षाप्रयोज्ये एव कथं वाच्यवाचकभावसम्बन्धप्रयोज्ये स्याताम् ? तस्मात् तृतीयः पक्षः सर्वतोविरोधाद्धेयः ।
न चाऽस्त्वत एव भङ्ग उद्देश्यसमर्पकस्याऽयमिति पदस्याऽधिकस्य प्रवेशः, तथा च नोक्तदोषाणामवकाश इति वाच्यम् ।
एवं सति स्यात्पदबोध्यस्य कथञ्चिदर्थस्य स्वद्रव्यादिनिरूपितत्वादेः किं घटत्वेऽन्वयस्तदाश्रये वा ? न चैतद् द्वयमपि सम्भवति, घटत्वतदाश्रययोरन्यानपेक्षस्थितिकयोः स्वद्रव्याद्यनिरूपितत्वात्, तदनवच्छेद्यत्वाच्च । नहि भवति घटत्वमस्य मृदाद्यपेक्षया न तन्त्वाद्यपेक्षया, न वा भवति घटोऽयं मृदाद्यपेक्षया न तन्त्वाद्यपेक्षयेत लौकिकपरीक्षकयोः कस्याऽप्यनुभवः ।
किञ्च, प्रथमभङ्गे घटत्वस्य विधाने द्वितीयभङ्गे तस्यैव निषेधः प्राप्नोति । एवं च निषेध्ये तस्मिन् परद्रव्यादिनिरूपितत्वादिकमयोग्यत्वान्नाऽन्वेतुमर्हति । तन्निष्ठप्रतियोगितायामवच्छेदकविधया परद्रव्यादीनामन्वये व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावो द्वितीयभङ्गविषय इत्याश्रितो भवति । एवं च परद्रव्यादीनामिव स्वद्रव्यादीनामपि घटत्वेऽसत्त्वेन तेषामपि द्वितीयभङ्गेऽवच्छेदकविधया प्रवेशप्रसङ्ग इत्यादिकं वृत्तित्वपक्षवदत्राऽपि न निरोद्धुं शक्यम् । यदा तु निपातातिरिक्तनामार्थ-योरभेदातिरिक्तसम्वन्धेनाऽन्वयोऽव्युत्पन्न इति प्रथमभङ्गे न घटत्वसामान्यस्य नामार्थस्येदम्पदार्थ आश्रयद्वारकपरम्परासम्बन्धेनाऽन्येन वा साक्षात्सम्वन्धेनाऽन्वयसम्भवः । एवमेकत्र विशेषणत्वेनोपस्थितस्य निराकाङ्क्षतया नाऽन्यत्र विशेषणतयाऽन्वय इति नियमात् पदार्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org