________________
सप्तभङ्गीप्रभा
पदार्थेनाऽन्वेति न तु पदार्थकदेशेनेति नियमाच्च घटत्वस्य पदार्थैकदेशस्य नेदमाद्यर्थेऽन्वयसम्भव इति विभाव्यते, तदा प्रथमभङ्गेऽगत्या घटस्यैव विधेयत्वस्याऽङ्गीकरणीयतया द्वितीयभङ्गे तस्यैव निषेध्यत्वमङ्गीकरणीयम् । एवं प्रथमभने घटस्य तादात्म्यसम्बन्धेन विधाने द्वितीयभङ्गे तस्य तेनैव निषेध इत्यतः स्यादयं घट एवेति प्रथमभङ्गप्रयोगे स्यादयं घटो नैवेत्यस्यैव द्वितीयभङ्गतया तत्र प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तिवचनत्वतश्च द्वितीयभङ्गप्रतिपाद्यो घटान्योन्याभाव एव वाच्यः, न तु घटात्यन्ताभावः । नञसमभिव्याहृताद् यादृशाद् वाक्याद् यत्र येन रूपेण येन सम्बन्धेन यस्य प्रतीतिर्नसमभिव्याहृतात् तादृशाद् वाक्यान्नञा तत्र तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नतन्निष्ठप्रतियोगिताकाभावस्य प्रतीतिरित्येवं परात् प्रतियोग्यभावान्वयौ तुल्ययोगमाविति न्यायादनुयोगिवाचकपदसमभिव्याहारे नञा नामार्थस्याऽत्यन्ताभाववोधनेऽनुयोगिवाचकपदोत्तरसप्तमीविभक्तिरपेक्ष्यते, भेदवोधने च प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तिकत्वमिति नियमाच्च । एवं च घटत्वेन भूतले घटः, न तु पटत्वेनेति प्रतीतिबलाद् यथा व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकात्यन्ताभावोऽभ्युपगमविषयः, तथा भूतलं घटत्वेन घटवन्नतु पटत्वेनेति प्रतीतिवलाद् व्यधिकरणधर्मावच्छिन्नावच्छेदकताकप्रतियोगिताकभेदोऽपि । न तु भवत्ययं घटत्वेन घटो न तु पटत्वेनेति कस्याऽप्यनुभव इति प्रमाणाभावाद् व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकभेदो नाऽभ्युपगन्तव्य इति परद्रव्यादीनां व्यधिकरणानां न प्रतियोगितावच्छेदकतया द्वितीयभङ्गार्थघटकता ।
न चाऽन्यथाऽन्वययोग्यताऽपीति प्रथमान्तेदम्पदप्रक्षेपे द्वितीयभोऽप्रसिद्धार्थक एव स्यात् । न च घटत्वेन भूतले घट इति भूतलं घटत्वेन घटवदिति चाऽनुभवो भवति । न त्वयं घटत्वेन घट इत्यनुभव इत्युक्तिमात्रं विनिगमनाभावादिति शङ्कयम् । वृत्तित्वनिरूपकत्वादीनां सखण्डोपाधीनां सावच्छिन्नतया भूतलपदोत्तरसप्तम्यर्थे वृत्तित्वे घटत्वपदोत्तरतृतीयार्थावच्छेदकताया निरूपितत्वसम्वन्धेनाऽन्वयस्य घटवदित्यर्थस्य घटनिष्ठनिरूपकतानिरूपिताधिकरणतावत एकदेशे निरूपकतायामन्वयस्य च सम्भवेन घटत्वेन भूतले घट इत्यस्य भूतलं घटत्वेन घटवदित्यस्य चोपपत्तावपि घटत्वेनाऽयं घट इत्यत्र घटपदार्थ घटत्वे आश्रये चेदम्पदार्थ इदन्त्वे आश्रये वा घटत्वपदोत्तरतृतीयार्थावच्छेदकताया अन्वयासम्भवेन न तथानुभव उपपद्यत इति विनिगमकस्य सद्भावात् ।
किचैवमभ्युपगमे स्यादयं घटादभिन्न एव, स्यादयं घटादिन्न एवेत्यादिसप्तभङ्गीतोऽस्याः संसर्गविधयाऽभेदभानादतिरिक्तं वैलक्षण्यं न स्यात् । एवं च तत्र यथा न स्वद्रव्यादीनामपेक्षानिमित्ततयोपयोगः किन्त्वन्यस्यैव, तथाऽस्यामपि न तेषां तथोपयोगः स्यादिति यत्किञ्चिदेतत् । न चाऽनन्तरोक्तदोषगणोपनिपातभयादिदं पदं न भङ्गघटकतयोपादीयते, किन्तु स्वरूपसत्त्वात्मकविधेयाववोधकमस्तिपदमेव यथाव्यवस्थितं स्वीक्रियते । स्वरूपसत्त्वस्य च धर्मिण एकान्तभेदे एकान्ताभेदे चाऽस्तु भवद्दर्शितदोषप्रहारोपनिपातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org