________________
सप्तभङ्गीप्रभा
न च, तथाविधस्य तस्याऽस्तिपदवाच्यतयाऽभ्युपगमः, किन्तु धर्मिणो भिन्नाभिन्नस्य । तत्रैकान्तभेदमवलम्व्य दत्तस्य दोषस्याऽभेदमाश्रित्यैकान्ताभेदमवलम्व्य दत्तस्य दोषस्य भेदमाश्रित्य च परिहारसम्भवादिति वाच्यम् ।
यत एकान्तवादिनं परं प्रति सप्तभङ्गयात्मकस्याद्वादेन सत्त्वासत्त्वाद्यनेकधर्मात्मकत्वं भवता बोधनीयम् । साऽपि सप्तभङ्गी यदि स्वघटकप्रत्येकविषयस्याऽनेकान्तत्वमुपादायैव प्रवर्तेत तदा तत्सिद्ध्यर्थमपि तदानीमेव सप्तभङ्गयन्तरोपादानस्याऽऽवश्यकतया तत्राऽप्युक्तयुक्त्याऽनेकान्तत्वसिद्ध्यपेक्षायां केवलमनवस्थापिशाच्येवाऽबाधितप्रसरा स्यात्, न तु परस्य तत्त्वानुभूतिः । किञ्चाऽस्मिन् पक्षे स्वरूपसत्त्वमित्यस्य संज्ञामात्रं, यतो धर्ममात्रस्यैव धर्मिणा सह भेदोऽभेदश्च । तथा चाऽऽपेक्षिकत्वं यदस्य तन्न धर्मिणोऽभेदमवलम्ब्य । तथा सति धर्मिणोऽनापेक्षिकत्वे तस्याऽप्यनापेक्षिकत्वं स्यादिति कुत्र स्यादर्थो घटनामियात् ? किन्तु भेदमवलम्व्यैव ।
__ एवं द्वितीयभङ्गेऽपि भेदमवलम्ब्यैव तस्य निषेध्यता, नाऽभेदमवलम्व्य । तत्त्वे तन्निषेधे धर्मिणोऽपि निषेधापत्तौ कुत्र निषेधो निरूप्येत ? तथा च वृत्तित्वपक्षोक्ता दोषा अत्राऽपि निपतन्तः कथमुत्वासनीयाः? । यदि चाऽयमस्तित्वधर्मः स्वभावतो न वृत्तित्वमनुकरोति, कथं तर्हि भेदाभेदनित्यत्वानित्यत्वादयो धर्माः प्रतिनियतनिमित्तापेक्षयैव प्रवर्तन्ते, न त्वस्तित्वम् ? तत्तु विवक्षावैचित्र्यात् कदाचित् स्वद्रव्यं कदाचित् स्वक्षेत्रमेवं स्वकालं स्वभावमित्येवमनियमेनाऽपेक्षानिमित्तमासाद्य प्रवर्तत इत्यत्र विनिगमकमनुपदर्थ्य परः प्रतिवोधनीयः । तस्मान्न स्वरूपसत्त्वमस्तिपदार्थः ।
अनभ्युपगमादेव चाऽर्थक्रियाकारित्वलक्षणं वौद्धाभ्युपगतं, त्रिगुणात्मकत्वलक्षणं साङ्ख्याभिमतं, परमार्थिकव्यावहारिकप्रातिभासिकसंज्ञाभेदकलितं त्रिकालबाध्यत्व-व्यवहारकालाबाध्यत्व-प्रतीतिकालाबाध्यत्वलक्षणलक्षितं वेदान्त्यभ्युपगतं, परसामान्यात्मकं च नैयायिकाद्यभ्युपगतं सत्त्वमस्तिपदार्थो न सम्भवति, न च तत्र दर्शितदिशा स्यादर्थान्वययोग्यताऽपि ।
नाऽप्युत्पादव्ययधौव्यलक्षणं सत्त्वमस्तिपदार्थः । तथा हि- किं त्रयाणामुत्पादादीनामवच्छेदकत्वान्निरूपकत्वाद्वा स्वद्रव्यादीनामन्वयः, तेषामन्यतमस्य वा ? नाऽऽद्यः, परस्परविलक्षणस्वभावानामुत्पादादीनामेकेन केनचित् स्वद्रव्यादिना निरूपितत्वस्याऽवच्छेद्यत्वस्य वाऽसम्भवात् । यदा चोक्तत्रितयवत्त्वलक्षणमस्तित्वं प्रथमभङ्गविषयस्तदा तदभाव एव द्वितीयभङ्गविषयो वाच्यः । समुदायाभावश्च समुदायिनां मध्यादेकस्याऽभावेऽपि सम्भवतीति स्वद्रव्यस्य धौव्यमात्रावच्छेदकत्वं, न तूत्पादव्यययोरित्येवं विवक्षया स्वद्रव्येणोत्पादाभावं व्ययाभावं वाऽवलम्व्य प्रवर्तमानो द्वितीयभङ्गः कथमुन्मूलनीयः? ।
किञ्च, भिन्नकालीनानामुत्पादादीनामवच्छेदकत्वं निरूपकत्वं वा स्वद्रव्यादिष्वभ्युपगम्यते समानकालीनानां वा ? आद्ये स्वद्रव्यक्षेत्रभावानां कालत्रयेऽनुगामिनां सम्भवति भवन्मते परमते च यथाकथञ्चिदवच्छेदकत्वं निरूपकत्वं वा । तत्र परमतादविशेष एव । स्वकालस्य तु स्वध्वंसकालेऽसतः कथमवच्छेदकत्वं निरूपकत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org