________________
सप्तभङ्गीप्रभा
२१
वा? । द्वितीये, एकस्यैवैकदैवोत्पादव्ययधौव्ययुक्तत्वं नाऽपेक्षानिमित्तभेदमन्तरेणेति प्रतिनियतापेक्षानिमित्तोपरक्तेषु तेष्वेकापेक्षानिमित्तसम्पर्कासम्भवात् । नहि भवति विरुद्धस्वभावानां प्रतिनियतापेक्षानिमित्तावष्टम्भत एकत्राऽवस्थानमिवैकनिमित्तावष्टम्भेनाऽप्यवस्थानम् । एवमयमप्यर्थः परं प्रति स्याद्वादमवतायैवोपदर्शनीय इति कथं प्रथमत एव स्यादस्त्येव घट इत्यादिसप्तभङ्गी समवतरेत्? । नाऽपि द्वितीयः, यथा हि यत्किञ्चित्समुदाय्यवच्छेदकत्वान्निरूपकत्वाद्वा स्वद्रव्यादीनामपेक्षानिमित्ततया प्रथमभङ्गार्थे प्रवेशः, तथा यत्किञ्चित्समुदाय्यनवच्छेदकत्वादनिरूपकत्वाद्वा समुदायाभावावच्छेदकत्वमवलम्ब्य द्वितीयभङ्गेऽपि प्रवेशोऽवाधितप्रसर एवेति येनैव सत्त्वं तेनैवाऽसत्त्वमिति सूपपादिता सप्तभङ्गी ।
न च, यत्किञ्चित्समुदाय्यवच्छेदके कथं यत्किञ्चित्समुदाय्यनवच्छेदकत्वम् ? विरोधादिति वाच्यम् ।
एवं सति यत्किञ्चित्समुदाय्यनवच्छेदके यत्किञ्चित्समुदाय्यवच्छेदकत्वमपि कथम् ? विरोधादेवेति तुल्यम् । व्यक्तिविशेषमुपादायाऽविरोधोऽपि तुल्य एवेति । अन्योऽपि यः कश्चिदर्थो विकल्पितेभ्योऽत्राऽस्त्यर्थतयाऽभ्युपेयः स्यात् सोऽप्युक्तदोषान्यतमं नाऽतिक्रामतीति प्रथमभङ्गो नोपपद्यते ।
निषेध्यनिरूप्यत्वात् निषेधस्येति निषेध्यानिर्वचने तन्निर्वचनमप्यशक्यमिति तत्प्रतिपादको द्वितीयभङ्गोऽप्यनुपपन्नः । दर्शिता च तदनुपपत्तिरन्तराऽन्तरा प्रथमभङ्गार्थविचार एव । इतोऽपि द्वितीयभङ्गो नोपपद्यते । तथा हि – एकान्तवादिमताविशेषापादकेनाऽपि व्यधिकरणधर्मावच्छिन्नप्रतियोगिताभावावलम्वनेन द्वितीयभङ्गार्थोपवर्णनं तदा चतुरस्रं स्यात्, यदि द्वितीयभङ्गेऽधिकरणविशेषप्रतिपादकं वचनं स्यात् ।
न च स्यान्नास्त्येव घट इत्यत्राऽधिकरणविशेषप्रतिपादकं पदं किञ्चिदस्ति, तथा च स्यान्नास्त्येव वाच्यत्वं प्रमेयत्वमित्यादौ वाच्यत्वप्रमेयत्वादीनां केवलान्वयित्वेन समानाधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाप्रसिद्ध्या व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाश्रयणस्याऽऽवश्यकत्वेऽपि घटत्वावच्छिन्नघटनिष्ठ प्रतियोगिताकाभावस्य घटानधिकरणदेशे प्रसिद्धिसौलभ्येन तत्र व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाश्रयणस्याऽनौचित्यमेव । न हि प्रतीतेः क्लृप्तेनैव विषयेणोपपत्तावक्लृप्तविषयत्वमुरीकुर्वन्त्यभियुक्ताः । न च यद्विधीयते प्रतिषिध्यते च वस्तु तत् कुत्रचिदधिकरण इति नियमात् स्यादस्त्येव घट इत्यनेनाऽवश्यमेव कस्मिंश्चिदधिकरणे घटो विहितः, उपस्थितिलाघवाच्च तत्रैव घटो निषिध्यते द्वितीयभङ्गेन । एवं चाऽनुक्तमप्यधिकरणवचनं लभ्यत एव ।।
न च, यत्र यस्य येन रूपेण सत्त्वं तत्र तस्य तेन रूपेणाऽभावो विरोधात् सम्भवतीति व्यधिकरणधर्मावच्छिन्नाभावाश्रयणं विना नाऽन्या गतिरस्तीति वाच्यम् ।
यतः शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते इति नियमेनाऽधिकरणविशेषवाचकपदस्योपादान एवाऽऽकाङ्क्षायां प्रवेशसम्भवः । अन्यथाऽऽकाक्षावहिर्भूतपदादिवाऽऽक्षिप्तादपि तस्माद् न तदर्थस्य शाब्दबोधविषयत्वसम्भवः । किञ्च, यद्याक्षिप्तेनाऽप्यधिकरणवचनेन तदर्थान्वयवोधसम्भवाद् नोक्तेन तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org