________________
सप्तभङ्गीप्रभा
चतुर्थभङ्गप्रतिपाद्यस्य त्ववक्तव्यत्वस्य धर्मान्तरतयैवोररीकारेण तत्संशयं प्रति तृतीयभङ्गजन्यबोधस्य कथमपि प्रतिबन्धकत्वासम्भवेन तदुत्पत्तिक्रमेण चतुर्थभङ्गावतारः सुघटः । एवं पञ्चमादिभङ्गोत्थापकाः संशयाः सूपपादा इति दिक् ।
वियं सप्तभङ्गी तदा स्याद् यद्यस्तित्वादिधर्माणां सप्तविधत्वमेवेति नियमः स्यात् । न चाऽयं नियमः सम्भवति, तत्तद्भङ्गप्रतिपाद्यतयाऽभिमतानामस्तित्वादिधर्माणामेव निर्वक्तुमशक्यत्वात्, न्यूनाधिकसङ्ख्याभावाभावाच्च । तथा हि यथैवैकान्ततत्त्ववादिभिर्ये ये धर्मा अभ्युपगम्यन्ते तथैव ते ते धर्मा यद्यनेकान्तवादिनाऽपि तेन तेन भङ्गेन सप्तभङ्गीघटकेन प्रतिपाद्यन्ते तदाऽनेकान्तवादित्वं तस्याऽचतुरस्रमेव स्यात् । अत एकान्तवाद्यनभ्युपगतप्रकारेणैव ते ते धर्मास्तत्तद्वङ्गप्रतिपाद्या इत्यास्थेयम् ।
९
-
इत्थं च प्रथमभङ्गार्थ एव तावद्विचारणीयः । तत्र स्यादस्त्येव घट इत्यस्य निपातानां द्योतकत्वं वाचकत्वं वेत्युभयथाऽप्यनेकान्तावबोधकेन स्यात्पदेनाऽपेक्षानिमित्तस्य घटत्वादेरुपस्थापनतो घटत्वावच्छिन्नास्तितावानेव घट इत्यर्थः प्रतीयते । तत्र किं तावदस्तित्वम् ? न तावद् वृत्तित्वं, तथा सत्येकान्तवादिभिरपि वृत्तित्वादीनां सावच्छिन्नत्वस्योरीकारेण ततोऽविशेषप्रसङ्गः । न हि घटे या भूतलादिनिरूपिता वृत्तिता सा न घटत्वावच्छिन्नेति नैयायिकादीनामप्युपगमः । वृत्तित्वस्य च सनिरूपकत्वेन निरूपकविशेषापुरस्कारेण तद्बोधस्याऽपरिपूर्णत्वे सप्तभङ्गीतोऽपि समूहालम्बनस्तद्विषयको वोधोऽपरिपूर्ण एव स्यादिति विधिनिषेधकल्पनयाऽस्तित्वादेः निराकाङ्क्षाववोधार्थं सप्तभयुपासनं प्रयासमात्रमापद्येत । किञ्च, वृत्तित्वरूपास्तित्वस्य संयोगेन घटाद्यधिकरणं यद्भूतलादि, तादात्म्येन घटाद्यधिकरणं वा यन्मृदादि तन्निरूपकमेव, न त्ववच्छेदकम् । एवं च स्वद्रव्येण घटोऽस्त्येव स्वक्षेत्रेण घटोऽस्त्येवेत्यत्र च स्वद्रव्यावच्छिन्नत्वस्य स्वक्षेत्रावच्छिन्नत्वस्य च वृत्तित्वे बाधाद् बोधानुपपत्तिः ।
न च तत्र स्वद्रव्यनिरूपितं स्वक्षेत्रनिरूपितं च वृत्तित्वं प्रतीयते इति वाच्यं ।
तथा सति तद्बोधिका सप्तम्येव स्यात्, न तृतीया । परमतादविशेषोऽत्राऽपि, घटनिष्ठवृत्तित्वस्य भूतलादिनिरूपितस्यैव परैरुपगमात् । एतेन स्वकालेन स्वकाले वाऽस्तीत्यपि प्रत्युक्तम् । देशनिरूपितवृत्तितायां कालस्य, कालनिरूपितवृत्तितायां देशस्य चाऽवच्छेदकत्वस्य परैरप्युपगमात् ।
किञ्च, क्षेत्रनिरूपितवृत्तित्व- द्रव्यनिरूपितवृत्तित्व-कालनिरूपितवृत्तित्वानां निरूपकभेदादवच्छेदकसम्बन्धभेदाच्च परस्परं भिन्नत्वेऽपि तेषां सर्वेषां घटत्वावच्छिन्नत्वेन घटत्वावच्छिन्नवृत्तितातो न भेदो, न वा घटत्वावच्छिन्ना वृत्तिता तेभ्योऽन्या काचित् समस्तीति घटत्वावच्छिन्नवृत्तित्वप्रतिपादकभङ्गघटितसप्तभङ्गया भूतलादिवृत्तित्वप्रतिपादकभङ्गघटितसप्तभङ्गीतो गतार्थता ।
Jain Education International
न च यदेव घटे वृत्तित्वं घटत्वावच्छिन्नं तदेव भूतलादिनिरूपितमपि परन्त्वेकस्यां सप्तभङ्गयां घटत्वावच्छिन्नत्वेन प्रतीयतेऽन्यस्यां च भूतलादिनिरूपितत्वेन प्रतीयते तेन तेन रूपेण स्वरूपत एकस्यापि
For Private & Personal Use Only
www.jainelibrary.org