________________
सप्तभङ्गीप्रभा
भासते । तथा सति पटत्वेनाऽस्तित्वाभावव्याप्यघटत्वेनाऽस्तित्ववान् घट इति प्रथमभङ्गजन्यो बोधः स्याद्, न चैवमुपेयते, इति न तदभावव्याप्यवत्तानिश्चयमुद्रयाऽपि प्रतिबन्धकत्वमिति पूर्वप्रदर्शितसंशयः स्यादेव ।
___ न च, स्यादस्त्येव घट इति प्रथमभड्नेनैवकारघटितेनाऽवधारणार्थः प्रतीयते, तथा च घटत्वेनाऽस्तित्वस्य विरोधि यथा घटत्वेन नास्तित्वं तथा सर्वथाऽस्तित्वमपीति तद्व्यवच्छेदप्रतीतौ तदन्तर्गततया पटत्वेनाऽस्तित्वव्यावृत्तिरपि प्रतीयते । अतः प्रथमभङ्गजन्यवोधस्य पटत्वेनाऽस्तित्वाभावप्रकारकनिश्चयत्वेन रूपेण पटत्वेनाऽस्तित्वप्रकारकवुद्धित्वावच्छिन्नं प्रति प्रतिवन्धकत्वेन तत्सदावे कथमुक्तसंशयोल्लास इति वाच्यम् ।
सर्वथाऽस्तित्वं हि न प्रत्येकं तत्तद्रूपावच्छिन्नास्तित्वान्यतमरूपं, येन तद्व्यवच्छेदप्रतीतौ पटत्वेनाऽस्तित्वव्यवच्छेदोऽपि प्रतीयेत, घटत्वेनाऽस्तित्वस्याऽपि तादृशान्यतमान्तर्गतत्वेन घटत्वेनाऽस्तित्वस्य बोधे तद्व्यवच्छेदभानस्याऽसम्भवात्, किन्तु स्वपररूपादिसर्वप्रकारावच्छिन्नमस्तित्वं प्रत्येकं तत्तद्रूपावच्छिन्नास्तित्वसमुदायो निरवच्छिन्नमस्तित्वं वा, न चैतत्त्रितयमपि पटत्वेनाऽस्तित्वस्य व्यापकं, पटत्वेनाऽस्तित्वाश्रये पटे तेषामभावात् ।
समुदाये यद्यपि प्रत्येकं समुदायिस्वरूपं प्रविष्टं, तथाऽपि समुदायत्वेनैव रूपेण तद्व्यवच्छेदः प्रतीयते, न तु प्रत्येकगततत्तदसाधारणरूपेण । एकस्य कस्यचित् समुदायिनः सत्त्वेऽपि समुदायाभावस्य सत्त्वे विरोधाभावेन समुदायत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारताकनिश्चयस्य प्रत्येकं तत्तद्धर्मावच्छिन्नप्रकारताकबुद्धित्वावच्छिन्नं प्रत्यप्रतिबन्धकत्वेन नोक्तरीत्याऽप्युक्तसंशयोत्पत्तिः प्रतिरोद्धं शक्या । तथा च परम्परया प्रयोजकस्य संशयस्य सम्भवाद् द्वितीयो भङ्गः स्यादेव ।
तृतीयभङ्गप्रतिपाद्यस्य क्रमार्पितकथञ्चिदस्तित्वकथञ्चिन्नास्तित्वोभयस्य कथञ्चिदस्तित्वकथञ्चिनास्तित्वाभ्यां कथञ्चिद् व्यतिरिक्तत्वेन तबुद्धित्वस्य तदभावबुद्धित्वस्य वाऽस्तित्वनिश्चयस्य नास्तित्वनिश्चयस्य वा प्रतिवद्ध्यतानवच्छेदकत्वेन प्रथमद्वितीयभङ्गाभ्यां प्रत्येकमस्तित्व-नास्तित्वनिश्चययोः क्रमेण वृत्तत्वेऽपि तदनन्तरं क्रमार्पितास्तित्व-नास्तित्वोभयप्रकारकसंशयस्योत्पत्तिनिराबाधैव ।
___ न च, प्रथमद्वितीयभङ्गजन्यबोधयोनिश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वं सम्भवति, तदभावावच्छेदकतया गृहीतधर्मनिश्चयस्यैव तदभावग्राहकत्वेन निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वस्योररीकृतत्वेन तस्य प्रथमभङ्गेनाऽस्तित्वस्य द्वितीयभड्नेन नास्तित्वस्य वा क्रमार्पितास्तित्वनास्तित्वोभयाभावाच्छेदकतयाऽगृहीतत्वेन प्रकृतेऽसम्भवात् । मणिमन्त्रादिन्यायेन प्रतिवन्धकताऽत्र तदा स्याद् यदि प्रथमद्वितीयभङ्गजन्यवोधानन्तरं तादृशसंशयानुत्पत्तिरविगानेन प्रतीता स्यात्, यथा मण्यादिसमवधाने दाहानुत्पत्तिः, न चैवम् । किञ्च निश्चयविशिष्टनिश्चयत्वेन तत्रैव प्रतिवन्धकता यत्रैककालावच्छिन्नैकाधिकरणवृत्तित्वसम्बन्धेन निश्चयवैशिष्ट्यं द्वितीयनिश्चये वर्तते । प्रकृते च द्वितीयभङ्गजन्यवोधकाले प्रथमभङ्गजन्यवोधस्याऽभावेन तादृशवैशिष्ट्यमेव न सम्भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org