________________
सप्तभङ्गीप्रभा क्षत्यभावात् । यदि च प्रयोजनभेदेऽपि स्वरूपस्याऽविशेषान्न सप्तभङ्गीत्रयकल्पना युक्तिमती, नवा स्वरूपव्यवस्थापकत्वस्य लक्षणलक्षणस्य प्रकृते सत्यन्तविनिर्मुक्तेऽपि लक्षणे निरावाधेन तदनुपयोगिविशेषणमुपनिवेश्य लक्षणभेदकल्पनाऽपि युक्ता, इति भवति परीक्षकाणां मतिः; तदा सत्यन्तानुपादानेऽपि न नः किञ्चिदपचीयते । यदि च सप्तभङ्गयाः प्राश्निकप्रश्नज्ञानप्रयोज्यत्वपक्षे तत्तद्ग्रन्थपर्यालोचनया संशयजिज्ञासाप्रश्नानां सप्तविधत्वं न प्रकारगतसप्तत्वमात्रप्रयुक्तं किन्तु स्वरूपभेदप्रयुक्तमपीति निश्चीयते, एवं च समूहालम्बनात्मकसंशयादिकमादायोपपादिता सप्तभङ्गी न ऋजुमतीनामानन्दविधायिनी, भङ्गानां संशयादिना परस्परं व्यवधानेऽपि पुनरव्यवधानेनोपस्थितिकल्पनया सप्तभङ्गीभावमापन्नानां समुच्चयात्मकबोधजनकत्वमेव च तेषामनुमतमिति विभाव्यते, तदा तत्तद्रङ्गजन्यान्वयबोधानन्तरं भङ्गान्तरप्रयोजकसंशयाधुत्पत्तिरपीत्थं विभाव्यताम् ।
तथा हि – स्यादस्त्येव घट इति प्रथमभड्रेनोत्पन्नो निर्णयः स्वरूपेण घटत्वादिनाऽस्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताको घटत्वादिना नास्तित्वनिष्ठाप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नं प्रति प्रतिवन्धको, न तु पररूपेण पटत्वादिना नास्तित्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नं प्रति । एवं च तदनन्तरं पररूपेण घटो नाऽस्ति नवेति संशयः स्यादेव, तस्य पररूपावच्छिन्ननास्तित्वनिष्ठप्रकारताकस्य स्वरूपावच्छिन्ननास्तित्वनिष्ठप्रकारताकत्वाभावेनोक्तप्रतिबध्यतावच्छेदकधर्मानाक्रान्तत्वात् ।
यद्यपि पररूपेणाऽस्ति नवेति संशयोऽपि द्वितीयभङ्गप्रयोजकः, तथाऽपि तस्याऽपि पररूपेणाऽस्तित्वनिष्ठप्रकारताकत्वं पररूपेण नास्तित्वनिष्ठप्रकारताकत्वं च, न तु स्वरूपावच्छिन्ननास्तित्वनिष्ठप्रकारताकत्वम्, इत्युक्तप्रतिवध्यतावच्छेदकधर्मानाक्रान्तत्वेनोत्पत्तिर्निराबाधैव ।
न च, घटत्वे नास्तित्वप्रकारकनिश्चयो यथा घटत्वेन नास्तित्वप्रकारकबुद्धिं प्रति प्रतिवन्धकस्तथा पटत्वादिनाऽस्तित्वप्रकारकबुद्धिं प्रत्यपीति पटत्वादिनाऽस्तित्वप्रकारकवुद्धित्वमपि तत्प्रतिबध्यतावच्छेदकम् । तस्य पटत्वेन घटोऽस्ति नवा, पटत्वेन घटो नास्ति नवेत्युभयत्र सत्त्वेन प्रतिबध्ययोस्तयोर्न प्रथमभङ्गजन्यबोधानन्तरमुत्पत्तिसम्भव इति वाच्यम् ।
यतो घटत्वेनाऽस्तित्वस्य पटत्वेनाऽस्तित्वं नाऽभावरूपं, येन तज्ज्ञानस्य तदभावज्ञानविधया घटत्वेनाऽस्तित्वनिश्चयस्य प्रतिबध्यत्वं स्यात् । यद्यपि घटत्वपटत्वयोः परस्पराभावव्याप्यत्वेन तदवच्छिन्नास्तित्वयोरपि परस्पराभावव्याप्यत्वमिति कृत्वा घटत्वेनाऽस्तित्वनिश्चयस्य तदभावव्याप्यवत्तानिश्चयमुद्रया पटत्वेनाऽस्तित्वबुद्धिं प्रति प्रतिवन्धकत्वं, तथाऽपि स्वरूपसतस्तदभावव्याप्यत्वस्य न प्रतिबन्धकतोपयोगित्वं, वस्तुतस्तदभावाव्याप्यस्याऽपि तदभावव्याप्यत्वेन ग्रहे तन्निश्चये प्रतिबन्धकत्वस्य तदभावव्याप्यस्याऽपि तत्त्वेनाऽग्रहणे तन्निश्चये प्रतिबन्धकत्वाभावस्यैव चाऽनुभूयमानत्वात् । किन्तु ज्ञातस्य तस्य तत्त्वं वाच्यम् ।
स्यादस्त्येव घट इति निश्चये च भासमानं घटत्वेनाऽस्तित्वं न पटत्वेनाऽस्तित्वाभावव्याप्यत्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org