________________
सप्तभङ्गीप्रभा विवक्षायामस्तित्वनास्तित्वयोरुभयोरपि युगपत्प्रधानभावेन वक्तुमशक्यत्वतो योऽयं तुर्यभङ्गप्रतिपाद्योऽवक्तव्य त्वनामा धर्मस्तस्य विधिनिषेधोभयाश्रितत्वेन धर्मधर्मिणोरभेदमाश्रित्य विधिनिषेधरूपत्वं स्यादेव । अस्तित्वनास्तित्वयोरवक्तव्यत्वादेव तदाश्रयस्याऽप्यवक्तव्यत्वमिति विधिनिषेधकल्पनात्मिकायां सप्तभङ्गयां युज्यत एवाऽवक्तव्यत्वप्रतिपादकस्य तुर्यभङ्गस्य प्रवेशः ।
किश, वाक्यस्य परार्थाधिगमफलकत्वेन यथा परस्य संशयनिवृत्त्यर्थं प्रयोक्तव्यत्वं तथा परस्याऽज्ञाननिवृत्त्यर्थमपि प्रयोक्तव्यत्वम् । सत्त्वादिप्रत्येकधर्मविधिनिषेधमुखाश्च धर्मा यतः सप्त, ततोऽज्ञानमपि सप्तधैवाऽतस्तन्निवर्तकवाक्यमपि सप्तधैव । एवं धर्माणां सप्तविधत्वात् तत्र वादिनां विप्रतिपत्तयोऽपि सप्त, तन्निवर्तकवाक्यान्यपि सप्तेत्येवंरीत्याऽपि सप्तभङ्गी सूपपादा । न चाऽज्ञानविप्रतिपत्तिनिरासार्थमपि सप्तभङ्गीवाक्यस्याऽभ्युपगमे तत्र प्रदर्शितसप्तभङ्गीलक्षणघटकस्य प्राश्निकप्रश्नज्ञानप्रयोज्यत्वे सतीति विशेषणस्याऽभावादव्याप्तिरुक्तलक्षणे दोषः ।
न चोक्तदोषव्यपोहाय सत्यन्तं नोपादेयमिति वाच्यम् । __ “प्रश्नवशादेकत्र वस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तभनी" इति चिरन्तनोक्तावुक्तार्थकप्रश्नवशादित्युपादानवलात् तस्य तल्लक्षणघटकत्वावधारणादिति वाच्यम् । “यद्यपि सत्यन्तनिवेशस्याऽतिव्याप्त्यादिदोषवारकत्वं न सम्भवति तथाऽपि प्रतिपाद्यप्रश्नानां सप्तविधानामेव सद्भावात् सप्तैव भङ्गा इति नियमसूचनाय तन्निवेशनम् इति ग्रन्थेन'1 विमलदासेनाऽव्याप्त्यतिव्याप्त्यसम्भवाभिधलक्षणदोषावारकत्वेन तस्याऽवश्योपादेयत्वस्याऽर्थतः प्रतिक्षेपात् । प्रत्युत हेतोर्व्यभिचाराद्यवारकविशेषणघटितत्वे लक्षणस्येतरभेदानुमितिप्रयोजनकत्वपक्षे व्यर्थविशेषणघटितत्वेन व्याप्यत्वासिद्धिदोषमुरीकुर्वतो नैयायिकादीन् प्रति सत्यन्तघटितमुक्तलक्षणं प्रदर्शयितुमप्यशक्यम् ।
यदि च लक्ष्यभेदे लक्षणभेद आवश्यकः, लक्ष्या चाऽत्र सप्तभङ्गी, सा यद्यपि स्वरूपतोऽभिन्ना तथाऽपि प्रयोजनभेदादिन्ना एका संशयनिवर्तिका, द्वितीयाऽज्ञाननिवर्तिका, तृतीया विपर्ययनिवर्तिका । एकस्या अपि तत्तत्प्रयोजनोपधानतः कथञ्चिद् भेदो न विरुद्धः । एवं च सप्तभड़ीसामान्यलक्षणे सत्यन्तं नोपादेयं, प्रयोजनाभावात्, अज्ञानादिनिवृत्त्युद्देशप्रवृत्तायामव्याप्तेश्च । उपादेयं च तत्संशयनिवृत्तिफलकसप्तभङ्गीविशेषलक्षणे । अन्यथाऽज्ञानादिनिवृत्त्युद्देशप्रवृत्तायां तस्यामतिव्याप्तेः ।
एवं च सप्तभङ्गीविशेषलक्षणे सत्यन्तस्य व्यभिचारवारकत्वेन न वैयर्थ्यमिति विभाव्यते, तदाऽस्तु सप्तभङ्गीविशेषमुद्दिश्यैव प्रश्नवशादिति चिरन्तनानामुक्तिः । यत्र चैकस्य प्रतिपाद्यस्य संशयोऽन्यस्याऽज्ञानं तृतीयस्य च विपर्ययस्तत्र तानुद्दिश्य प्रवृत्ताया एकस्या एव सप्तभङ्गन्या उक्तप्रयोजनत्रयोपधायकत्वेन प्रत्येकं सप्तभङ्गीत्रयलक्षणयोगेऽपि न तत्तल्लक्षणस्याऽतिव्याप्तिः, तस्या लक्षणत्रयलक्ष्यताया उक्तदिशाऽभ्युपगमे 1. सप्तभङ्गीतरङ्गिणी पृ. ४ पं. ७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org