SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ सप्तभङ्गप्रभा प्रतिपाद्यस्याऽन्वयवोधानन्तरं क्रमार्पितास्तित्वनास्तित्वोभयसंशयजिज्ञासातः प्रश्ने सति तज्ज्ञानात् स्यादस्त्येव नास्त्येव चेति तृतीयभङ्गः प्रयोक्तव्यः । इत्येवं क्रमेण तुर्यपञ्चमषष्ठसप्तमभङ्गानां प्रवृत्तिमाश्रित्य यद्युक्तसप्तभङ्गसमाहारात्मिका सप्तभी स्यात् तदोक्तदिशाऽक्रमिकसंशयापाकरणतस्तस्या अपाकरणं स्यादपि । यदा तु कथञ्चिदस्तित्वादीनां धर्माणां सप्तविधत्वात् कथञ्चिदस्ति नवा कथञ्चिन्नास्ति नवेत्याद्याकारकः समूहालम्बनात्मक एव प्रत्येकं सप्तधर्माणां संशयः प्रतिपाद्यस्य सम्भवति, ततश्च सप्तधर्मजिज्ञासया तदवबोधकप्रश्नवाक्यतस्तज्ज्ञानात् स्याद्वादिना तत्संशयनिवृत्त्यर्थं प्रयुज्यते सप्तभङ्गी, तदा सा निराबाधैव । न च, “धर्माः सत्त्वादयः सप्त, संशयाः सप्त, तद्गताः जिज्ञासाः सप्त, सप्त स्युः, प्रश्नाः सप्तोत्तराण्यपि " || इति वचनात् संशयजिज्ञासाप्रश्नानानां सप्तत्वं प्रतीयते, तस्योक्तदिशा सप्तभङ्ग्युपपादने विरोधः स्यादिति वाच्यम् । संशयादीनां हि सप्तत्वं न संशयत्वाद्यवान्तरजातिवैलक्षण्यप्रयुक्तं, ज्ञानत्वावान्तरप्रत्यक्षत्वपरोक्षत्ववैलक्षण्यप्रयुक्तं, ज्ञानद्वैविध्यमिवाऽनभ्युपगमात् । नाऽपि व्यक्तिभेदप्रयुक्तं तथा सति धर्माणां सप्तविधत्वाभावेऽप्येकस्याऽपि धर्मस्य कालभेदेनैकस्यैव पुरुषस्यैकदाऽपि नानापुरुषाणां सप्तानां संशयादिव्यक्तीनां सम्भवेन सत्त्वादीनां धर्माणां सप्तविधत्वप्रयुक्तं संशयानां सप्तत्वमुक्तवचनप्रतिपाद्यमचतुरस्रं स्यात् । किन्तु स्वप्रकारीभूतधर्मसप्तत्वप्रयुक्तमेव वाच्यम् । तच्च समूहालम्बनसंशयस्य स्वरूपत एकत्वेऽपि निराबाधमेव । एवं जिज्ञासाप्रश्नयोरपि । अत एवोत्तरोत्तरभङ्गानां पूर्वपूर्वभङ्गानन्तर्यमप्युपपद्यते । भङ्गानामव्यवहितपूर्वापरीभावाभावे तु सप्तभङ्गया अविरुद्धविधिप्रतिषेधात्मकधर्मसप्तकप्रकारकसमुच्चयबोधस्योपपत्तयेऽभिमतस्य महावाक्यत्वस्य व्याकोपः स्यात् । न च स्यादस्त्येवेति वाक्यजन्यबोधानन्तरमेव नास्तित्वसंशयो यदि स्यात् तदा ततो जिज्ञासादिद्वारा स्यान्नास्त्येवेति द्वितीयभङ्गावतारे तयोर्नियतः पूर्वापरीभावो युज्यते । एवं द्वितीयतृतीयभङ्गाद्योरपि । यदा तु समूहालम्बनसंशयादित एव सप्तभङ्गाः प्रयुज्यन्ते, तदा भङ्गानां पूर्वापरीभावनियामकस्य कस्यचिदभावाद् यथा स्यादस्त्येवेति भङ्गप्रयोगान्तरं स्यान्नास्त्येवेति भङ्गः प्रयुज्यते तथा स्यान्नास्त्येवेति भङ्गप्रयोगानन्तरं स्यादस्त्येवेति भङ्गः प्रयुज्येत, एवं भङ्गान्तराणामपि पूर्वापरीभावे विनिमयोऽपि स्यात्, उत्तरवाक्यप्रयोगमूलस्य प्रश्नज्ञानस्य पूर्वमेव वृत्तत्त्वादिति वाच्यम् । निषेधज्ञानं प्रति प्रतियोगिज्ञानस्य कारणत्वेन प्रतियोगिज्ञानविधया स्यादस्त्येवेति भङ्गजन्यबोधस्य स्यान्नास्त्येवेति भङ्गजन्यबोधं प्रति कारणत्वेन तयोः फलयोर्नियमेन पौर्वापर्ये तत्कारणयोर्भङ्गयोरपि पौर्वापर्यस्य न्याय्यत्वात् । न हि भङ्गयोः पौर्वापर्यमन्तरेण तज्जन्यबोधयोः पौर्वापर्यं निर्वहतीति सहार्पितस्वरूपपररूपादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003636
Book TitleSaptabhangiprabha
Original Sutra AuthorNemisuri
AuthorShilchandrasuri
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy