________________
सप्तभङ्गप्रभा
न च प्रत्येकं कथञ्चिदस्तित्वनास्तित्वयोर्निश्चयेऽप्युभयत्वेनाऽनिश्चयात् तद्रूपेण संशयः स्यात्, एकरूपेण तन्निश्चयस्य रूपान्तरेण तत्संशयं प्रत्यप्रतिबन्धकत्वादिति वाच्यम् ।
४
वोधकपदाभावेनोभयत्वेन रूपेणाऽस्तित्वनास्तित्ववोधस्य तृतीयभङ्गतोऽजायमानत्वेनोभयत्वेन रूपेण तत्संशयस्य तदननुगुणत्वात् समुच्चयार्थकेन चकारेण तृतीयभङ्गप्रविष्टेनोभयत्वस्याऽवबोधनसम्भवे वोभयत्वाश्रयैकधर्मनिश्चयस्योभयत्वाश्रयधर्मान्तरनिश्चयकालीनस्योभयत्वेन रूपेण तद्धर्मप्रकारकसंशयं प्रति प्रतिबन्धकत्वस्याऽनुभवातीतत्वेऽप्युभयत्वाश्रयधर्मान्तरनिश्चयकालीनस्य तस्य तथाविधसंशयं प्रति निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वस्याऽनुभूयमानस्याऽप [Sपलपितुमशक्यत्वात् 1
सहार्पितस्वरूपपररूपादिविवक्षातो योऽयं स्यादवक्तव्य एव घट इति चतुर्थो भङ्गः प्रवर्तते सोऽपि न युक्तियुक्तः, तद्विषयतयाऽभिमतस्य कथञ्चिदवक्तव्यत्वस्य धर्मान्तरतयैव स्वीकारेण तत्संशये प्रथमभङ्गादिजन्यतत्तदर्थनिश्चयस्याऽप्रतिबन्धकत्वेऽपि तथाविधावक्तव्यत्वस्य विधिरूपत्वप्रतिषेधरूपत्वान्यतरानास्पदत्वेन तत्प्रतिपादकचतुर्थभङ्गघटितसमुदायात्मकसप्तभङ्गयाः प्राश्निकप्रश्नज्ञानप्रयोज्यत्वे सति एकवस्तुविशेष्यकाविरुद्धविधिप्रतिषेधात्मकधर्मप्रकारकबोधजनकसप्तवाक्यपर्याप्तसमुदायत्वरूपसप्तभङ्गीलक्षणवैधुर्यात् ।
न च, वक्तव्यत्वप्रतिषेधरूपत्वेनाऽवक्तव्यत्वस्य विधिप्रतिषेधान्यतरानात्मकत्वमेवाऽसिद्धमिति
वाच्यम् ।
यद्धर्मस्य विधिप्रतिषेधकल्पनया या सप्तभङ्गी, तस्यां तद्धर्मविधिप्रतिषेधात्मकधर्मबोधकवाक्यघटितत्वस्यैवोक्तलक्षणाभिप्रेतत्वेनाऽस्तित्वस्य विधिनिषेधकल्पनया प्रवृत्तायाः सप्तभङ्गन्या घटकस्य वाक्यस्याऽस्तित्वस्य यो विधिः स्वरूपम्, अस्तित्वस्य यो निषेधो नास्तित्वं, तदन्यतरप्रकारकबोधजनकत्वमेवोचितम् । अवक्तव्यत्वं च नास्तित्वस्य विधिनाऽर्पितस्य प्रतिषेध इति तत्प्रतिपादकभङ्गघटितसप्तभङ्गया उक्तसप्तभङ्गीलक्षणवैधुर्यं स्यादेव ।
यदि च वक्तव्यत्वमस्तित्वेन नास्तित्वेन वाऽभिधेयत्वं तच्चाऽस्तित्वस्य स्वरूपे नास्तित्वस्य स्वरूपे वा पर्यवस्यतीति तन्निषेधरूपतयाऽवक्तव्यत्वस्य न प्रकृतधर्मविधिनिषेधान्यतरात्मकताऽसिद्धेति विभाव्यते, तदा प्रस्तुतधर्मविधिनिषेधयोर्निश्चयस्याऽनन्तरभङ्गेन सद्भावेऽवक्तव्यत्वस्य संशयाभावादेव न तुर्यभङ्गप्रवृत्तिरुपपद्यते, सेयमुभयतः पाशा रज्जुः ।
एवं पञ्चमषष्ठसप्तमभङ्गा अपि तत्प्रतिपाद्यधर्मविषयकसंशयासम्भवेन जिज्ञासाप्रश्नयोरभावादवतारयितुमशक्या इति चेद्,
मैवम् । यतः प्रतिपाद्यस्य स्यादस्त्येवेति प्रथमभङ्गजन्यान्वयवोधानन्तरं नास्तित्वसंशयजिज्ञासातः प्रश्ने सति तज्ज्ञानात् स्याद्वादिना तत्संशयनिवृत्यर्थं स्यान्नास्त्येवेति द्वितीयभङ्गः प्रयोक्तव्यः । ततश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org