________________
१०
सप्तभङ्गीप्रभा
वृत्तित्वस्य भेद इष्यत एवेति वाच्यम् ।
स्यादेवं यदि सावच्छिन्नानां सनिरूपकाणां च प्रतीतिरवच्छेदकं निरूपकं चाऽविषयीकृत्याऽऽत्मानमासादयेत्, न चैवम्, अन्यथाऽवच्छेदकाद्यववोधकस्यात्पदाप्रयोगेऽपि वस्तुतो यद्धर्मावच्छिन्नत्वाद्यालिङ्गितं यद्वृत्तित्वं तत्तद्वस्तु प्रतिनियतं तस्यैवाऽस्तीत्यनेनाऽववोधनसम्भवादस्त्येव घट इत्यादिवाक्यस्य दुर्नयवाक्यत्वं न स्यात् । तादृशस्य वृत्तित्वस्य सर्वप्रकारावच्छिन्नत्वस्य वस्तुतोऽभावादेव न तथा प्रतीतावपि घटस्य सर्वात्मकत्वप्रसङ्गः ।
यदि चाऽवच्छेदकाद्यप्रतीतौ स्वरूपतो वृत्तित्वविशेषस्य प्रतीतावपि न निराकाङ्क्षवोधः, अपरिपूर्णधर्मप्रतिपादकत्वादिति विभाव्यते तदाऽवच्छेदकसंवलितस्य निरूपकासंवलितस्य निरूपकसंवलितस्याऽवच्छेदकासंवलितस्य च प्रतीतावपि न निराकाङ्क्षबोध इति घटत्वाद्यवच्छिन्नतया प्रतीयमानं भूतलादिनिरूपितत्वेनाऽपि भूतलादिनिरूपिततया प्रतीयमानं घटत्वाद्यवच्छिन्नतयाऽपि च वृत्तित्वं प्रतीयत इत्यकामतोऽपि परिपूर्णबोधार्थं सप्तभङ्गीमभ्युपगच्छद्रिरभ्युपगन्तव्यम् । तथा च पूर्वोक्ता एकस्याः सप्तभङ्ग्या अन्यया सप्तभङ्ग्या गतार्थता स्यादेव ।
___न च, सप्तभङ्ग्याः प्राश्निकप्रश्नज्ञानप्रयोज्यतायाः स्वीकारेण संशयितपुरुषविशेषमुद्दिश्यैव प्रवृत्तिः, अतो यस्य प्रतिपाद्यस्य पुरुषस्य यादृशधर्मद्वयेनाऽस्तित्वे संशयः तादृशधर्मद्वयमध्यादेकस्य धर्मस्य निर्णये सति भवति कृतकृत्यता । एवं च घटः कथञ्चिदस्ति नवेति संशयो यदा यत्पुरुषस्य सर्वधर्मावच्छिन्नवृत्तित्वकिञ्चिद्धविच्छिन्नवृत्तित्वरूपकोटिद्वयमवलम्व्य जातस्तदा तं प्रति स्यादस्त्येव घट इत्ययं भङ्गो घटत्वावच्छिन्नत्वेन वृत्तित्वमववोधयति । तदानीं भूतलाद्यधिकरणनिरूपितत्वस्याऽजिज्ञासितत्वेन तद्रूपेणाऽवबोधनाभावेऽपि क्षतिविरह: । तदंशस्याऽनवबोधनेऽपि प्रतिपाद्यगतसंशयविशेषनिवर्तकनिर्णयजनकत्वादेव प्रतिनियतांशे परिपूर्णता भङ्गस्य । यदा चोक्तसंशयस्तत्पुरुषस्य सर्वक्षेत्रनिरूपितवृत्तित्वकिञ्चित्क्षेत्रनिरूपितवृत्तित्वरूपकोटिद्वयमवलम्व्य जातस्तदा तं प्रत्ययं भङ्गो भूतलादिप्रतिनियतक्षेत्रनिरूपितत्वेन वृत्तित्वमवबोधयति । एवं स्वद्रव्यनिरूपितत्व-स्वकालनिरूपितत्वादिना । एवं च प्रथमभङ्गे स्वद्रव्य-स्वक्षेत्र-स्वकाल-स्वभावावबोधकेन, द्वितीयभङ्गे परद्रव्य-परक्षेत्र-परकाल-परभावावबोधकेन, तृतीयभादौ क्रमार्पिततदुभयाद्यवबोधकेन स्यात्पदेन घटिता स्यादस्त्येव घट इत्यादि सप्तभङ्गसमाहाररूपा सप्तभङ्गयेव प्रतिपाद्यान् संशयितपुरुषविशेषानुद्दिश्य प्रवृत्ता घटत्वेनाऽस्त्येव घट इत्यादिसप्तभङ्गीरूपतां स्वद्रव्यादिनाऽस्त्येव घट इत्यादिसप्तभङ्गीरूपतां चाऽऽसादयतीति नैकस्याः सप्तभङ्ग्या अन्यया सप्तभझ्या गतार्थता । तासां स्यादस्त्येव घट इत्यादि सप्तभङ्गीविवरणमात्रपर्यवसायित्वेन स्वातन्त्र्येण सप्तभङ्गीत्वाभावश्च । अत एव सप्तभङ्गीमात्रस्य स्यात्पदलाञ्छितत्वमप्युपपद्यते । अन्यथा घटत्वेनाऽस्त्येव घट इत्यादौ स्यात्पदाभावेन तन्न स्यादिति वाच्यम् ।
स्यात्पदं हि प्रकृते कथञ्चिदित्यर्थकमेव, न तु कस्मिंश्चिदित्यर्थकं कदाचिदित्यर्थकं वा, स्यान्नित्य एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org