Book Title: Saptabhangiprabha
Author(s): Nemisuri, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 15
________________ सप्तभङ्गीप्रभा भासते । तथा सति पटत्वेनाऽस्तित्वाभावव्याप्यघटत्वेनाऽस्तित्ववान् घट इति प्रथमभङ्गजन्यो बोधः स्याद्, न चैवमुपेयते, इति न तदभावव्याप्यवत्तानिश्चयमुद्रयाऽपि प्रतिबन्धकत्वमिति पूर्वप्रदर्शितसंशयः स्यादेव । ___ न च, स्यादस्त्येव घट इति प्रथमभड्नेनैवकारघटितेनाऽवधारणार्थः प्रतीयते, तथा च घटत्वेनाऽस्तित्वस्य विरोधि यथा घटत्वेन नास्तित्वं तथा सर्वथाऽस्तित्वमपीति तद्व्यवच्छेदप्रतीतौ तदन्तर्गततया पटत्वेनाऽस्तित्वव्यावृत्तिरपि प्रतीयते । अतः प्रथमभङ्गजन्यवोधस्य पटत्वेनाऽस्तित्वाभावप्रकारकनिश्चयत्वेन रूपेण पटत्वेनाऽस्तित्वप्रकारकवुद्धित्वावच्छिन्नं प्रति प्रतिवन्धकत्वेन तत्सदावे कथमुक्तसंशयोल्लास इति वाच्यम् । सर्वथाऽस्तित्वं हि न प्रत्येकं तत्तद्रूपावच्छिन्नास्तित्वान्यतमरूपं, येन तद्व्यवच्छेदप्रतीतौ पटत्वेनाऽस्तित्वव्यवच्छेदोऽपि प्रतीयेत, घटत्वेनाऽस्तित्वस्याऽपि तादृशान्यतमान्तर्गतत्वेन घटत्वेनाऽस्तित्वस्य बोधे तद्व्यवच्छेदभानस्याऽसम्भवात्, किन्तु स्वपररूपादिसर्वप्रकारावच्छिन्नमस्तित्वं प्रत्येकं तत्तद्रूपावच्छिन्नास्तित्वसमुदायो निरवच्छिन्नमस्तित्वं वा, न चैतत्त्रितयमपि पटत्वेनाऽस्तित्वस्य व्यापकं, पटत्वेनाऽस्तित्वाश्रये पटे तेषामभावात् । समुदाये यद्यपि प्रत्येकं समुदायिस्वरूपं प्रविष्टं, तथाऽपि समुदायत्वेनैव रूपेण तद्व्यवच्छेदः प्रतीयते, न तु प्रत्येकगततत्तदसाधारणरूपेण । एकस्य कस्यचित् समुदायिनः सत्त्वेऽपि समुदायाभावस्य सत्त्वे विरोधाभावेन समुदायत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारताकनिश्चयस्य प्रत्येकं तत्तद्धर्मावच्छिन्नप्रकारताकबुद्धित्वावच्छिन्नं प्रत्यप्रतिबन्धकत्वेन नोक्तरीत्याऽप्युक्तसंशयोत्पत्तिः प्रतिरोद्धं शक्या । तथा च परम्परया प्रयोजकस्य संशयस्य सम्भवाद् द्वितीयो भङ्गः स्यादेव । तृतीयभङ्गप्रतिपाद्यस्य क्रमार्पितकथञ्चिदस्तित्वकथञ्चिन्नास्तित्वोभयस्य कथञ्चिदस्तित्वकथञ्चिनास्तित्वाभ्यां कथञ्चिद् व्यतिरिक्तत्वेन तबुद्धित्वस्य तदभावबुद्धित्वस्य वाऽस्तित्वनिश्चयस्य नास्तित्वनिश्चयस्य वा प्रतिवद्ध्यतानवच्छेदकत्वेन प्रथमद्वितीयभङ्गाभ्यां प्रत्येकमस्तित्व-नास्तित्वनिश्चययोः क्रमेण वृत्तत्वेऽपि तदनन्तरं क्रमार्पितास्तित्व-नास्तित्वोभयप्रकारकसंशयस्योत्पत्तिनिराबाधैव । ___ न च, प्रथमद्वितीयभङ्गजन्यबोधयोनिश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वं सम्भवति, तदभावावच्छेदकतया गृहीतधर्मनिश्चयस्यैव तदभावग्राहकत्वेन निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकत्वस्योररीकृतत्वेन तस्य प्रथमभङ्गेनाऽस्तित्वस्य द्वितीयभड्नेन नास्तित्वस्य वा क्रमार्पितास्तित्वनास्तित्वोभयाभावाच्छेदकतयाऽगृहीतत्वेन प्रकृतेऽसम्भवात् । मणिमन्त्रादिन्यायेन प्रतिवन्धकताऽत्र तदा स्याद् यदि प्रथमद्वितीयभङ्गजन्यवोधानन्तरं तादृशसंशयानुत्पत्तिरविगानेन प्रतीता स्यात्, यथा मण्यादिसमवधाने दाहानुत्पत्तिः, न चैवम् । किञ्च निश्चयविशिष्टनिश्चयत्वेन तत्रैव प्रतिवन्धकता यत्रैककालावच्छिन्नैकाधिकरणवृत्तित्वसम्बन्धेन निश्चयवैशिष्ट्यं द्वितीयनिश्चये वर्तते । प्रकृते च द्वितीयभङ्गजन्यवोधकाले प्रथमभङ्गजन्यवोधस्याऽभावेन तादृशवैशिष्ट्यमेव न सम्भवतीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106