Book Title: Prernani Pavan Murti Sadhvi Mrugavatishreeji
Author(s): Kumarpal Desai, Malti Shah
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 141
________________ પરિશિષ્ટ-૬ પ્રેરણાની પાવનમૂર્તિ आगमप्रभाकरश्रीपुण्यविजयात् सुखलालबेचरदलसुखसुधीभ्यः । साध्वीषुमध्ये सर्वाऽगमानां ज्ञानं प्रपेदे प्रथमक्रमेण ।। महत्तरा ।। ज्ञानं च कार्याणिनिरीक्ष्य यस्याः वृत्तिं परोपकारपरां निरुप्य । 'जैनभारती' पद: सुश्रेष्ठां समुद्रसूरिः प्रमुदा समर्पयत् । श्रीइन्द्रगुरुणा 'महत्तरा तु श्री कांगडातीर्थ-उद्धारिका' कृता ।। महत्तरा ।। (८) धन्या महा शीलवंतीच माता, शिल्पीय तज्जीवनमालिखत्सा । यस्याश्च वत्सलतागुणेन मृगावती तु महनीयतां गता । श्रेष्ठा सुज्येष्ठा विनय-प्रकृष्टा प्रभावितां यामकरोद्गुणैः स्वैः । मृगावतीश्री जिनसाधनायां यस्याः सदैव-सहयोगमाप्नोत् ।। महत्तरा ।। ज्ञानविशालं, सुगुणैकमालं, ब्रह्मव्रतोद्दीप्ततरं च भालम् । महिलायुवाजागरणं विशालं, विच्छेदकरणं मिथ्यात्वजालम् । विध्वंसकरणमज्ञानव्यालं, यस्याः गुणाः भावयितुं सदाऽलम् ।। महत्तरा ।। (१०) प्राणान्तकालेऽपि समाधिवृत्तिः यस्याः धृतिश्चैव प्रशंसनीया । 'स्वस्थाऽस्मि' वाक्यं महनीयमासीत् महत्तरायाः महिमाप्रदर्शकम् । चिकित्सकै विस्मयपूर्णदृष्टया दृष्टं तु धैर्यस्य परंनिदर्शनम् ।। महत्तरा ।। महत्तरा श्री मृगावतीजीनी स्तुति - प्रो. श्री जयकान्त (पं. अश्विनीकुमारजी दासना शिष्य) या देवी समलञ्चकार जनुषा, सौराष्ट्रदेशं शुभम्; बाल्येऽवाप्तवती स्वमातृवंदनांभोजान्मतं निर्मलम् । पाखण्डादितमोविकारहरणे, यस्या वचो दीधितिः; कल्याणं चकमे नृणां करुणया, सा भारती मोदताम् ।।१।। कारुण्यामृतपूरपूरितलसद्, गाम्भीर्य शोभावती; सिद्धान्तानुगुणानुकारि वसनं, धौतं सदा विभ्रती । लोकोद्धारचिकीर्षयेयमसकृज्जैनं मतं तन्यती; साध्वीरत्नमृगावती विजयतां, ज्ञानत्विषा भास्वती ।।२।। अनन्तसौजन्यमवाकिरन्ती, लोकस्य दौर्जन्यमपाकरोति । स्वतेजसा निश्छलचेतसेयं, मृगावती मङ्गलमातनोति ।।३।। ध्यानेन संन्यस्तविभेदबुद्धिः, संकल्पदासी कृतकार्यसिद्धिः । तपोधना शास्त्रविचार दक्षा, मृगावती त्रिजगतः प्रतिष्ठा ||४|| स्वकार्य संसाधन विप्रमादां, पिकोपम्स्फीतरवां विशुद्धाम् । मृगावतीमस्तसमस्तदोषां, वन्दामहे नित्यमगाधसत्त्वाम् ।।५।। संस्थाप्य या संस्कृतिरक्षणार्थ, संस्था: बहुत्र स्ववचः प्रभावैः । भव्याकृति स्निग्ध विनम्रभावा, महत्तरा जैनविचार शीला ।।६।। मन्दस्मितैरप्रतिम प्रभावैः, सन्देहपुजञ्च निवारयन्ती । स्वकण्ठनिस्यन्दितपूतनद्या, मनोमलं नुर्विमलीकरोति ।।७।। अज़ानपुजं विफलीकरोति, हृदिस्थकामान् सफलीकरोति । देशस्य दैन्यञ्च विभावयन्ती, महानतं पञ्चकमादधाति ।।८।। विनष्ट संकीर्ण मनोविकारा, गृहीतधर्मार्जन सुप्रकारा । प्रवाहितज्ञानमयाम्बुधारा, विभातु साध्वीगतदिव्यतारा ।।९।। सदैव दीनेष्वनुकम्पमाना, विद्वत्समाराधनमीहमाना । अनाथविद्यार्थिषु चेष्टमाना, मृगावती श्रीजगति प्रधाना ।।१०।। यस्याः सुदृष्टिः रविरश्मिनिर्मला योग्यं नरं चिन्हयितुं समर्था । विमर्थ्य सम्यक् धनकोट्याधीशं निःस्वार्थभावमतिकर्मठञ्च । प्रतिभायुतं राजकुमारजैनमाकारितं स्मारककार्यहेतोः ।। महत्तरा ।। यावत् प्रवाहः पवनस्यलोके, यावच्च प्राणस्थितिः सृष्टिमध्ये । यावच्च चन्द्रस्य दिवाकरस्य व्योमेप्रभा भाति द्युतिप्रभावा ।। तावत् यशः सुमहत्तरायाः भविताऽमरं काव्यनिबन्धनेषु ।। महत्तरा ।।

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161