________________
४४
कुन्दकुन्दविरचितः
[अ० १, गा० ३७
ह्यत्र विरोधिनी समुत्पत्तिरूपा वा ज्ञप्तिरूपा वा । उत्पत्तिरूपा हि तावन्नैकं स्वस्मात्प्रजायत इत्यागमाद्विरुद्धैव । ज्ञप्तिरूपायास्तु प्रकाशनक्रिययैव प्रत्यवस्थितत्वान्न तत्र विप्रतिषेधस्यावतारः । यथा हि प्रकाशकस्य प्रदीपस्य परं प्रकाश्यतामापनं प्रकाशयतः स्वस्मिन् प्रकाश्ये न प्रकाशान्तरं मृग्यं, स्वयमेव प्रकाशनक्रियायाः समुपलम्भात् । तथा परिच्छेदकस्यात्मनः परं परिच्छेद्यतामापनं परिच्छिन्दतः स्वस्मिन् परिच्छेद्ये न परिच्छेदकान्तरं मृग्यं, स्वयमेव परिच्छेदनक्रियायाः समुपलम्भात् । ननु कुत आत्मनो द्रव्यज्ञानरूपत्वं द्रव्याणां च आत्मज्ञेयरूपत्वं च । परिणामसंबन्धत्वात् । यतः खलु आत्मद्रव्याणि च परिणामैः सह संबध्यन्ते, तत आत्मनो द्रव्यालम्बनज्ञानेन द्रव्याणां तु ज्ञानमालम्ब्य ज्ञेयाकारेण परिणतिरबाधिता प्रध्यते [ प्रतपति ] ॥ ३६ ॥ अथातिवाहितानागतानामपि द्रव्यपर्यायाणां तादात्विकत्रत् पृथक्त्वेन ज्ञाने वृत्तिमुद्द्योतयति—
तक्कालिगेव सव्वे सदसन्भूदा हि पज्जया तासि । वहते ते णाणे विसेसदो दत्र्वजादीणं ॥ ३७ ॥ तात्कालिका इव सर्वे सदसद्भूता हि पर्यायास्तासाम् । वर्तन्ते ते ज्ञाने विशेषतो द्रव्यजातीनाम् ॥ ३७ ॥
सर्वासामेव हि द्रव्यजातीनां त्रिसमयावच्छिन्नात्मलाभ भूमिकत्वेन क्रमप्रतपत्स्वरूपसंपदः भूतम् । पारणामसंबद्धं कथंचित्परिणामीत्यर्थः । नैयायिकमतानुसारी कश्चिदाह - ज्ञानं ज्ञानान्तरवेद्यं प्रमेयत्वात् घटादिवत् । परिहारमाह-प्रदीपेन व्यभिचारः, प्रदीपस्तावत्प्रमेयः परिच्छेद्यो ज्ञेयो भवति न च प्रदीपान्तरेण प्रकाश्यते, तथा ज्ञानमपि स्वयमेवात्मानं प्रकाशयति न च ज्ञानान्तरेण प्रकाश्यते । यदि पुनर्ज्ञानान्तरेण प्रकाश्यते तर्हि गगनावलम्बिनी महती दुर्निवारानवस्था प्राप्नोतीति सूत्रार्थः ॥ ३६ ॥ एवं निश्चयश्रुतके वलिव्यवहारश्रुतकेवलिकथनमुख्यत्वेन भिन्नज्ञाननिराकरणेन ज्ञानज्ञेयस्वरूपकथनेन च चतुर्थस्थले गाथाचतुष्टयं गतम् । अथातीतानागतपर्याया वर्तमानज्ञाने सांप्रता इव दृश्यन्त इति निरूपयति सव्वे इससे असंभव दोष कभी भी नहीं लग सकता । अब यहाँपर फिर कोई प्रश्न करे, कि आत्माको द्रव्योंका ज्ञान किससे है ? और द्रव्योंको किंस रीतिसे प्राप्त होता है ? तो उससे कहना चाहिये, कि ज्ञान, ज्ञेयरूप पदार्थ, परिणामोंसे बँध रहे हैं । आत्माके ज्ञानपरिणति ज्ञेय पदार्थकी सहायतासे है । यदि ज्ञेय न होवे, तो किसको जाने ? और ज्ञेय पदार्थ ज्ञानका अवलम्बन करके ज्ञेय अवस्थाको धारण करते हैं । जो ज्ञान न होवे, तो इन्हें कौन जाने ? इसलिये पदार्थोंका ज्ञेयज्ञायक सम्बन्ध हमेशा से है, मिट नहीं सकता || ३६ || आगे कहते हैं, कि अतीत कालमें हुए द्रव्योंके पर्याय और अनागत ( भविष्यत्) कालमें होनेवाले पर्याय, ज्ञानमें वर्तमान सरीखे प्रतिभासते (मालूम पड़ते ) हैं - [ तासां द्रव्यजातीनां ] उन प्रसिद्ध जीवादिक द्रव्य जातियोंके [ते सर्वे ] वे समस्त [ सदसद्भूताः ] विद्यमान तथा अविद्यमान [पर्यायाः] पर्याय [हि ] निश्चयसे [ज्ञाने ] ज्ञानमें [ विशेषतः ] भिन्न भिन्न भेद लिये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org