Book Title: Pravachanasara
Author(s): A N Upadhye
Publisher: Shrimad Rajchandra Ashram

View full book text
Previous | Next

Page 510
________________ प्रवचनसारः प्रशस्तिः । नाथान्वयं नमस्कृत्य भव्यसारङ्गवार्मुचम् । संग्रथ्नामि प्रशस्ति हि नानाशब्दविराजिताम् ॥ १ ॥ मुक्तिश्रीर्यस्य कान्ता प्रसभमखिलं त्रोटितं कर्मबन्धं येन ध्यानेन प्लुष्टं निखिलभवतरुं पातु वो नेमिनाथः । ज्ञानाक्षिर्ज्ञानमूर्तिः सकलमुनिजनैः सेव्यमानो यतीन्द्रो भव्यानां यो हि चिन्त्यः सकलगुणनिधिर्देवनाथो जितारिः ॥ २ ॥ विक्रमादित्यराज्येऽस्मिंश्चतुर्दशपरे शते । नवषष्ट्या युते किं नु गोपाद्रौ देवपत्तने ॥ ३ ॥ अनेकभूभुपदपद्मलग्नस्तस्मिन्निवासी ननु पाररूपः शृङ्गारहारो भुवि कामिनीनां भूभुक् प्रसिद्धः श्रीवीरमेन्द्रः ॥ ४ ॥ मदनारिगृहं तत्र मदविध्वंसनक्षमम् । वैडूर्यघटितं मन्ये किं देवैश्चात्र निर्मितम् ॥ ५ ॥ ननु शक्रस्यादेशेन धन देनात्र निर्मितम् । कंसतालैश्च घण्टाद्यैर्वृते यत्स्वर्गिभिः सह ॥ ६ ॥ कामिन्यो यत्र गायन्ति नृत्यन्ति हि स्वभावतः । पठन्ति विदुषः पाठं निरवद्यं कृते मुदः ॥ ७ ॥ श्रीकाष्ठसंघे जगति प्रसिद्धे महद्गुणौघै त्रयमाथुरान्वये । सदा सदाचारविचारक्षे गणे सुरम्ये वरपुष्कराख्ये ॥ ८ ॥ मुनीश्वरोऽभून्नयसेनदेवः कृशाष्टकर्मा यशसां निवासः । पट्टे तदीये मुनिरश्वसेन आसीत्सदा ब्रह्मणि दत्तचेताः ॥ ९ ॥ पट्टे तदीये शुभकर्मनिष्ठोऽप्यनन्तकीर्तिर्गुणरत्नवार्धिः । मुनीश्वरोऽभूजिनशासनेन्दुस्तत्पट्टधारी भुवि क्षेमकीर्तिः ॥ ० ॥ पट्टे तदीये ननु हेमकीर्तिस्तपःप्रभानिर्जितभानुभानुः । रत्नत्रयालंकृत धर्ममूर्तिर्यतीश्वरोऽभूज्जगति प्रसिद्धः ॥ ११ ॥ यतिपपादकुशेशयषट्पदः परमधर्मधरः किमु भूधरः । न हि जडः किं नगः खलु चन्द्रमा न हि विधुः स कलङ्कविवर्जितः ॥ १२ ॥ पारावारो हि लोके यो जनानिमिषसेवितः । देवकीर्तिमुनिः साक्षात्परं क्षारविवर्जितः ॥ १३ ॥ व्याख्यायेव गुरुः साक्षात्पशुधर्मविनिर्गतः । पद्म कोर्तिमुनिर्भाति परं रागविवर्जितः ॥ १४ ॥ दिगम्बरोऽभूद्भुवि मेरुपर्वतः सुवर्णवर्णैः किमु सोऽप्यजङ्गमः । सरित्पत्तिः किं जलक्षारवर्जितो नक्षत्रराजः स कलङ्कनिर्गतः ॥ १५ ॥ प्रतापयन्द्रो हि मुनिप्रधानः स्वव्याख्यया रञ्जितसर्वलोकः । नियन्त्रितात्मीयमनोविहङ्गो विवादिभूभृत्कुलिशो नितान्तम् ॥ १६ ॥ गुणरत्नैरकूपारो भवभ्रमणशङ्कितः । हेमचन्द्रो यतिः साक्षात्परं ग्राहविवर्जितः ॥ १७ ॥ ग्लावः साम्यं रत्नसानोः स्थिरत्वं भानोः सूर्यः सूर्यकारोश्च रूपम् । गम्भीरत्वं पयोधेः प्रसभमखिलं त्यागमेवं बलेश्च 'संगृहीत्वा विधात्रा किमुत निजबलास्थापितोऽयं धर्मचन्द्रो' लक्ष्मीणो ज्ञानदक्षो विबुधमुनिजना ३४५ टीकाकारस्य प्रशस्तिः । अज्ञानतमसा लिप्तो मार्गों रत्नत्रयात्मकः । तत्प्रकाशसमर्थाय नमोऽस्तु कुमुदेन्दवे ॥ ॥ सूरीश्रीवीरसेनाख्यो मूलसंघेsपि सत्तपाः । नैर्ग्रन्थ्यपदवीं मेजे जातरूपधरोऽपि यः ॥ २ ॥ ततः श्रीसोमसेनोऽभूद्गणी गुणगणाश्रयः । तद्विनेयोऽस्ति यस्तस्मै जयसेनतपोभूते ॥ ३ ॥ शीघ्रं बभूव माल ? साधुः सदा धर्मरतो वदान्यः । सूनुस्ततः साधुमहीपतिर्यस्तस्मादयं चारुभटस्तनूजः ॥ ४ ॥ यः संततं सर्वविदः सपर्यामार्यक्रमाराधनया करोति । स श्रेयसे प्राभृतनामग्रन्थपुष्टात्पितुर्भक्तिविलोपभीरुः ॥ ५ ॥ श्रीमत्रिभुवनचन्द्र निजमतवाराशितायना चन्द्रम् । प्रणमामि कामना प्रबलमहापर्वतैकशतधारम् ॥ ॥ जगत्समस्त संसारिजीवकारणबन्धवे । सिधवे प्रव. ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612