________________
प्रवचनसारः
प्रशस्तिः ।
नाथान्वयं नमस्कृत्य भव्यसारङ्गवार्मुचम् । संग्रथ्नामि प्रशस्ति हि नानाशब्दविराजिताम् ॥ १ ॥ मुक्तिश्रीर्यस्य कान्ता प्रसभमखिलं त्रोटितं कर्मबन्धं येन ध्यानेन प्लुष्टं निखिलभवतरुं पातु वो नेमिनाथः । ज्ञानाक्षिर्ज्ञानमूर्तिः सकलमुनिजनैः सेव्यमानो यतीन्द्रो भव्यानां यो हि चिन्त्यः सकलगुणनिधिर्देवनाथो जितारिः ॥ २ ॥ विक्रमादित्यराज्येऽस्मिंश्चतुर्दशपरे शते । नवषष्ट्या युते किं नु गोपाद्रौ देवपत्तने ॥ ३ ॥ अनेकभूभुपदपद्मलग्नस्तस्मिन्निवासी ननु पाररूपः शृङ्गारहारो भुवि कामिनीनां भूभुक् प्रसिद्धः श्रीवीरमेन्द्रः ॥ ४ ॥ मदनारिगृहं तत्र मदविध्वंसनक्षमम् । वैडूर्यघटितं मन्ये किं देवैश्चात्र निर्मितम् ॥ ५ ॥ ननु शक्रस्यादेशेन धन देनात्र निर्मितम् । कंसतालैश्च घण्टाद्यैर्वृते यत्स्वर्गिभिः सह ॥ ६ ॥ कामिन्यो यत्र गायन्ति नृत्यन्ति हि स्वभावतः । पठन्ति विदुषः पाठं निरवद्यं कृते मुदः ॥ ७ ॥ श्रीकाष्ठसंघे जगति प्रसिद्धे महद्गुणौघै त्रयमाथुरान्वये । सदा सदाचारविचारक्षे गणे सुरम्ये वरपुष्कराख्ये ॥ ८ ॥ मुनीश्वरोऽभून्नयसेनदेवः कृशाष्टकर्मा यशसां निवासः । पट्टे तदीये मुनिरश्वसेन आसीत्सदा ब्रह्मणि दत्तचेताः ॥ ९ ॥ पट्टे तदीये शुभकर्मनिष्ठोऽप्यनन्तकीर्तिर्गुणरत्नवार्धिः । मुनीश्वरोऽभूजिनशासनेन्दुस्तत्पट्टधारी भुवि क्षेमकीर्तिः ॥ ० ॥ पट्टे तदीये ननु हेमकीर्तिस्तपःप्रभानिर्जितभानुभानुः । रत्नत्रयालंकृत धर्ममूर्तिर्यतीश्वरोऽभूज्जगति प्रसिद्धः ॥ ११ ॥ यतिपपादकुशेशयषट्पदः परमधर्मधरः किमु भूधरः । न हि जडः किं नगः खलु चन्द्रमा न हि विधुः स कलङ्कविवर्जितः ॥ १२ ॥ पारावारो हि लोके यो जनानिमिषसेवितः । देवकीर्तिमुनिः साक्षात्परं क्षारविवर्जितः ॥ १३ ॥ व्याख्यायेव गुरुः साक्षात्पशुधर्मविनिर्गतः । पद्म कोर्तिमुनिर्भाति परं रागविवर्जितः ॥ १४ ॥ दिगम्बरोऽभूद्भुवि मेरुपर्वतः सुवर्णवर्णैः किमु सोऽप्यजङ्गमः । सरित्पत्तिः किं जलक्षारवर्जितो नक्षत्रराजः स कलङ्कनिर्गतः ॥ १५ ॥ प्रतापयन्द्रो हि मुनिप्रधानः स्वव्याख्यया रञ्जितसर्वलोकः । नियन्त्रितात्मीयमनोविहङ्गो विवादिभूभृत्कुलिशो नितान्तम् ॥ १६ ॥ गुणरत्नैरकूपारो भवभ्रमणशङ्कितः । हेमचन्द्रो यतिः साक्षात्परं ग्राहविवर्जितः ॥ १७ ॥ ग्लावः साम्यं रत्नसानोः स्थिरत्वं भानोः सूर्यः सूर्यकारोश्च रूपम् । गम्भीरत्वं पयोधेः प्रसभमखिलं त्यागमेवं बलेश्च 'संगृहीत्वा विधात्रा किमुत निजबलास्थापितोऽयं धर्मचन्द्रो' लक्ष्मीणो ज्ञानदक्षो विबुधमुनिजना
३४५
टीकाकारस्य प्रशस्तिः ।
अज्ञानतमसा लिप्तो मार्गों रत्नत्रयात्मकः । तत्प्रकाशसमर्थाय नमोऽस्तु कुमुदेन्दवे ॥ ॥ सूरीश्रीवीरसेनाख्यो मूलसंघेsपि सत्तपाः । नैर्ग्रन्थ्यपदवीं मेजे जातरूपधरोऽपि यः ॥ २ ॥ ततः श्रीसोमसेनोऽभूद्गणी गुणगणाश्रयः । तद्विनेयोऽस्ति यस्तस्मै जयसेनतपोभूते ॥ ३ ॥ शीघ्रं बभूव माल ? साधुः सदा धर्मरतो वदान्यः । सूनुस्ततः साधुमहीपतिर्यस्तस्मादयं चारुभटस्तनूजः ॥ ४ ॥ यः संततं सर्वविदः सपर्यामार्यक्रमाराधनया करोति । स श्रेयसे प्राभृतनामग्रन्थपुष्टात्पितुर्भक्तिविलोपभीरुः ॥ ५ ॥ श्रीमत्रिभुवनचन्द्र निजमतवाराशितायना चन्द्रम् । प्रणमामि कामना प्रबलमहापर्वतैकशतधारम् ॥ ॥ जगत्समस्त संसारिजीवकारणबन्धवे । सिधवे प्रव. ४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org