Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra कर्मग्रन्थ॥ २ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्नुयाम | ज्ञान-सविवेकश्रद्धा- क्षमा- विनय - सरलतोदारतादिभिरात्मीय गुणैरान्तरी योग्यता ज्ञायते । पुष्कलधन -सत्पुत्रप्राप्ति - श्रेष्ठकुलजन्मादिभिश्व कीर्तिर्विवर्धते । एष समयोऽपि परिणामः कर्मजन्य एव यथावत्कर्मतत्त्वाभ्यासी चोत्कान्तिमापकक्रमेणैव प्रवर्तते । अपक्रान्तिकारणेभ्यश्च व्यावर्त्तते । स्वीया वर्त्तमानदशोत्कान्तिपथमायातुमुपयोक्तव्येत्येतदेव कर्मतत्त्वज्ञानस्य मुख्यं प्रयोजनम् । कर्मतत्त्वज्ञानाद्विना लब्धान्यप्युत्क्रान्तियोग्यानि साघनान्यपक्रान्तिसाधनतया परिणम्यन्ते । ततः कर्मतत्वज्ञानमवश्यसंपाद्यम् । तदीयज्ञानोपायः कार्मणकार्यकारणभावशृङ्खलायाः परिपूर्ण यथार्थे च ज्ञानं यद्यपि शुद्धानुभवेन संपाद्यं, परन्तु तादृगनुभवो नैकपदे संपद्यते । तादृशानुभवस्य द्वादशाक्षयः प्रारम्भस्तु शास्त्रादेव शक्यः । कैश्चित्पुण्यनामधेयैः कर्मतत्त्वं साक्षात्कृत्य शास्त्रद्वारा तज्ज्ञानमस्मासु सङ्क्रमयितुं यः प्रयत्नः कृतोऽस्ति सोऽस्मभ्यं बहूपयुज्यते । शास्त्रनिरपेक्षकर्मतत्त्वविषयकशुद्धानुभवप्राप्तरेवसरो यावन्नोपतिष्ठेत तावत्तस्या दिशः प्रतिभासाय तस्यां दिश्यभ्यासमये वर्धयितुं च शास्त्राणि विना कोऽभ्युपायः । सविस्तरं विशदतया कर्मतत्त्वप्रतिपादकानि शास्त्राणि - एतस्मिन्नार्यावर्ते देशान्तरे च भूतभिन्नात्मवादीनि यावन्ति दर्शनान्यात्मानं पुनर्जन्म च स्वीकुर्वन्ति तावत्युं सर्वेष्वपि न्यूनाधिकतया कर्मतत्त्वेन स्थानमवाप्तमेवास्ति । सुरूपकुरूपसुस्वरदुःस्वरपूज्यतातिरस्कार्यतोच्चस्वनीचत्वलाभहानिचिराचिरजीवनारोग्यरोगीत्व किञ्चिज्ज्ञताबहुज्ञताप्रभृतीनां - परस्पर विरोधिविविधात्मदशानां नियामकेन केनचित्तत्त्वेन भवितव्यमेवेत्यास्तीकानामभ्युपगमः । कचिद्दर्शने मायेति कचिच्चाविद्येति कचिद्वा For Private And Personal Use Only प्रस्तावना. ॥ २ ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 476