Book Title: Prachin Karmgranth Satik Author(s): Jain Atmanand Sabha Publisher: Jain Atmanand Sabha View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिनेति कचित्पुनरदृष्टेति पुण्यपापेति च नाना एतदेव कर्मतत्त्वं व्यवह्रियते । जैनदर्शने पुनस्तत्कर्मेति नाम्नाऽऽख्यायते । जैनतदितरदर्शन*योरेतस्मिन् विषयेऽयमेव भेदः, यदपरैः शुभाशुभफलजनके शुभाशुभकर्मणी अनङ्गीकृत्य प्रपञ्चवैचित्री दुरुपपादेत्यादि संक्षिप्तं विचार्य स विषय उपसमहारि । जैनाचार्यैस्तु भूयास्तद्गोचरः परामर्शः कृतोऽस्ति । कर्मणः प्रकाराः कारणानि परिणामा अपरे च तदीया विषया विजनदर्शनमृतेऽतिस्फुटमतिविस्तरेण च न सुज्ञानाः । कीदृशाः परिणामाः कीदृशानि कर्माणि जनयन्ति !, कियत्कालं यावत्नानि विपाकाय न भवन्ति !, विपाकजननसमये कीदृशी कीदृश्यवस्था प्रादुर्भवति !, कर्मणो बन्धनमोचनयोः क्रमः कीदृशः !, अध्यवसायबलेन च सच्चितकर्मणां परिणामाः कथंकारं विष्कम्भितुं युगपद्वा भोक्तुं शक्यन्ते, इत्याधनेकप्रश्नसमाधायकमुत्तरं जैनदर्शनादेव सूपपादम् । जैनाचार्याः कर्मणि विषये यद्यावच्चोहितवन्तः, तस्यैकोऽप्यंशः परेषु सर्वेषु दर्शनेषु न शक्यलाभः । एषा वार्ता केषाश्चिदपि दार्शनिकविपश्चितां मनसि सत्वरमायातुमर्हति। आत्मीयविविधस्थितिमालम्ब्य समुत्पद्यमानाः प्रश्नाः कर्मतात्त्विकज्ञानेनैव सुकरसमाधाना इत्येतावन्मात्रं यदि वयमभ्युपग18च्छेम, तर्हि विशिष्यातिसूक्ष्मं च तज्ज्ञानं संपादयितुं जैनशास्त्राश्रयणमनिवार्यमित्येदपि स्वीकर्तव्यमेव । ततस्तदन्थानां सूचना नात्रानुषयोगिनी। कर्मविषयकशास्त्राणां सूचनापुरा कर्मतत्त्वप्रतिपादकं चतुर्दशान्यतमं पूर्वमेव प्रधानतयाऽऽसीत् । एकैकपूर्वपरिमाणमतिमहत्वेन साम्प्रतिकानां लोकानां तु विसयास्पदम् । परिवर्तिष्णुकालमहिम्ना स्मृतिवैकल्यदोषादिना च तच्छास्त्रपरिमाणं हीयमानं हीयमानमत्यल्पतां गतं, तथापि शास्त्राणां विद्यमान परिमाणमाधुनिकानां जिज्ञासूनामभ्यासाय विचाराय च कथमपि नापर्याप्तम् । KAXXA************ For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 476