Book Title: Prabandh Parijat
Author(s): Kalyanvijay Gani
Publisher: K V Shastra Sangrah Samiti Jalor
View full book text
________________
३९
अवचन मुनिभिरर्थ्यां पश्यतस्तीर्थवीथीं, भवति भवविरक्ता धीर वीरात्मनोऽपि ॥३१॥ श्रेयः श्रेष्ठवसिष्ठहोमहुतभुक्कुण्डान्मृतण्डात्मजप्रद्योताधिकदेहदीधितिभ र: कोऽप्याविरासीन्नरः । तं मत्वा परमारणकरसिक स व्याजहार श्रुतेराधारः परमार इत्यजनि तन्नाम्नाऽथ तस्यान्वयः ॥३२॥ श्री धूमराजः प्रथमं बभूव, स्वासवस्तत्र नरेंद्रवंशे । भूमिभृतो यः कृतवानभिज्ञान् पक्षद्वयोच्छेदनवेदनासु ॥३३॥ अंधुकध्रुवभटादयस्तत-स्ते रिपुद्विपघटाजितोऽभवन् । यत्कुलेऽजनि पुमान्मनोरमो, रामदेव इति कामदेवजित् ।।३४।। रोदःकन्दरवत्तिकीतिलहरी लिप्ताऽमृतांशुद्युतेरप्रद्युम्नवशो यशोधक्ल इत्यासीत्तनूजस्ततः । यश्चोलुक्यकुमारपालनृपति प्रत्यथितामागतं, मत्वा सत्वरमेव मालवपति बल्लालमालब्धवान् ।।३५॥ शत्रुश्रेणीगलविदलनोन्निद्र निस्त्रिशधारो, धारावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः । क्रोधाक्रांतप्रधनवसुधानिश्चले यत्र जाताश्च्योतन्नेत्रोत्पलजलकणा: कोंकणाधीशपल्यः ॥३६॥ सोऽयं पुनर्दाशरथिः पृथिव्या-मव्याहतौजाः स्फुटमुज्जगाम । मारीचवैरादिव योऽधुनापि (म) गव्यमव्यग्रमतिः करोति ॥२७॥ सामंतसिंहसमितिक्षितिविक्षतौज:श्रीगुर्जरक्षितिपरक्षणदक्षिणासिः । प्रल्हादनस्तदनुजो दनुजोत्तमारिश्चारित्रमत्र पुनरुज्ज्वलयाँचकार ॥३८॥ देवी सरोजासनसंभवा कि कामप्रदा किं सुरसौरभेयी । प्रल्हादनाकारधराधरायामायातवत्येष न निश्चयो मे ॥३८॥ धारावर्षसुतोऽयं, जयति श्री सोमसिंहदेवो यः । पितृतः शौर्य विद्यां, पितृव्यकाहानमुभयतोजगृहे ॥४०॥ मुक्त्वा विप्रकरानरातिनिकरानिज्जित्य तत्किचन, प्रापत्संप्रति सोमसिंहनृपतिः सोमप्रकाशं यशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448