Book Title: Prabandh Parijat
Author(s): Kalyanvijay Gani
Publisher: K V Shastra Sangrah Samiti Jalor

View full book text
Previous | Next

Page 417
________________ ४०२ श्रीमन्त्रीश्वरवस्तुपालतनयः श्रीजैत्रसिंहाह्वय - स्तेजःपालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिधः । एतेषां दशमूर्तयः करिवधूपृष्ठप्रतिष्ठाजुषां राजन्ते जिनदर्शनार्थमयतां दिग्नायकानामिव ॥ ६३ मूर्तीनामिह पृष्ठतः करिवधूपृष्ठप्रतिष्ठाजुषां तन्मूर्तिविमलाश्मखत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबन्धुः सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥ ६४ ॥ तेजःपालः सकलप्रजोपजीव्यस्य वस्तुपालस्य । सविधे विभाति सफलः, सरोवरस्येव सहकारः ॥६५॥ तेन भ्रातृयुगेन या प्रतिपुर ग्रामाध्व- शैलस्थलं, वापीकूपनिपानकाननसरः प्रासादसत्रादिका । धर्म्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्ध, ता, तत्संख्यापि न बुद्धयते यदि परंतद्व दिनी मेदिनी ॥ ६७॥ शंभो: श्वासगतागतानि गणयेद् यः सन्मतिर्योऽथवा, नेत्रोन्मीलनमीलनानि कलयन्मार्कंडनाम्नो मुनेः । संख्यातुं सचिवद्वयीविरचितामेतामपेतापरव्यापारः सुकृतानुकीर्तनतति सोप्यूज्जिहीतेयदि ॥६७॥ सर्व्वत्र वर्त्ततां कीर्तिरश्वराजस्य शाश्वती । सुकर्तुमुपकर्तुं च जानीते यस्य संततिः || ६८ ।। आसीच्चडपमंडितान्वयगुरुर्नागेन्द्र गच्छश्रिय-चूडारत्नमयत्नसिद्धमहिमा सूरिमहेन्द्राभिधः । तस्माद्विस्मयनीयचारुचरितः श्रीशांति [ सूरिस्त ] तोप्यानन्दामरसूरियुग्ममुदयच्चन्द्रार्कदीपद्यति ॥ ६६ ॥ , " श्री जैनशासनवनी नवनीरवाहः, श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः । विद्या मदोन्मदगदेष्वन वद्यवैद्यः ख्यातस्ततो विजयसेनमुनीश्वरोऽयं ७० गुरो [स्त ] स्या [शि ]षां पात्रं, सूरिस्त्युदयप्रभः, मौक्तिकानीव सूक्तानि भांति यत्प्रतिभांबुधेः ॥ ७१ ॥ एतद्धर्म्मस्थानं, धर्म्मस्थानस्य चास्य यः कर्त्ता । तावद्वयमिदमुदिया दुदयत्ययमर्बुदो यावत् ॥ ७२ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448