________________
४०२
श्रीमन्त्रीश्वरवस्तुपालतनयः श्रीजैत्रसिंहाह्वय - स्तेजःपालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिधः । एतेषां दशमूर्तयः करिवधूपृष्ठप्रतिष्ठाजुषां राजन्ते जिनदर्शनार्थमयतां दिग्नायकानामिव ॥ ६३ मूर्तीनामिह पृष्ठतः करिवधूपृष्ठप्रतिष्ठाजुषां तन्मूर्तिविमलाश्मखत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबन्धुः सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥ ६४ ॥ तेजःपालः सकलप्रजोपजीव्यस्य वस्तुपालस्य । सविधे विभाति सफलः, सरोवरस्येव सहकारः ॥६५॥ तेन भ्रातृयुगेन या प्रतिपुर ग्रामाध्व- शैलस्थलं, वापीकूपनिपानकाननसरः प्रासादसत्रादिका । धर्म्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्ध, ता, तत्संख्यापि न बुद्धयते यदि परंतद्व दिनी मेदिनी ॥ ६७॥ शंभो: श्वासगतागतानि गणयेद् यः सन्मतिर्योऽथवा, नेत्रोन्मीलनमीलनानि कलयन्मार्कंडनाम्नो मुनेः । संख्यातुं सचिवद्वयीविरचितामेतामपेतापरव्यापारः सुकृतानुकीर्तनतति सोप्यूज्जिहीतेयदि ॥६७॥ सर्व्वत्र वर्त्ततां कीर्तिरश्वराजस्य शाश्वती । सुकर्तुमुपकर्तुं च जानीते यस्य संततिः || ६८ ।। आसीच्चडपमंडितान्वयगुरुर्नागेन्द्र गच्छश्रिय-चूडारत्नमयत्नसिद्धमहिमा सूरिमहेन्द्राभिधः । तस्माद्विस्मयनीयचारुचरितः श्रीशांति [ सूरिस्त ] तोप्यानन्दामरसूरियुग्ममुदयच्चन्द्रार्कदीपद्यति ॥ ६६ ॥
,
"
श्री जैनशासनवनी नवनीरवाहः, श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः । विद्या मदोन्मदगदेष्वन वद्यवैद्यः ख्यातस्ततो विजयसेनमुनीश्वरोऽयं ७० गुरो [स्त ] स्या [शि ]षां पात्रं, सूरिस्त्युदयप्रभः, मौक्तिकानीव सूक्तानि भांति यत्प्रतिभांबुधेः ॥ ७१ ॥ एतद्धर्म्मस्थानं, धर्म्मस्थानस्य चास्य यः कर्त्ता । तावद्वयमिदमुदिया दुदयत्ययमर्बुदो यावत् ॥ ७२ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org