________________
४०१ श्रीगागाभिधया सुधीरजनि यद्वृत्तानुरागादभूत् को नाप्तप्रमदो न दोलितशिरा नोद्भ तरोमा पुमान् ॥५०॥ अनुसृतसज्जनसरणिधरणिगनामा बभूव तत्तनयः । स्वप्रभुहृदयेगुणिना हारेणेव स्थितं येन ॥५१॥ त्रिभुवनदेवी तस्य, त्रिभुवनविख्यातशीलसम्पन्ना । दयिताऽभूदनयोः पुनरंगं द्वधा मनस्त्वेकं ॥५२॥ अनुपमादेवी देवी, साक्षाद्दाक्षायणीव शीलेन । तदुहिता सहिता श्री तेजःपालेनपत्याऽभूत् ॥५३॥
इयमनुपमदेवी दिव्यवृत्तप्रसून-व्रततिरजनि तेजःपालमंत्रीशपत्नी। नय-विनय विवेकौचित्यदाक्षिण्यदान-प्रमुखगुणगणेंदुद्योतिताशेषगोत्रा५४ लावण्यसिंहस्तनयस्तयोरयं-रयं जयन्निन्द्रियदुष्टवाजिनां । लब्ध्वापि मीनध्वजमंगलं वयः, प्रयाति धर्मेकविधायिनाऽध्वना ।५५॥ श्री तेजपालतनयस्य गुणानमुष्य, श्रीलूणसिंहकृतिनः कति न स्तुवंति । श्रीबंधनोद्धर तरैरपि यः समंता-दुद्दामता त्रिजगति क्रियते स्म कीर्तेः।५६।
गुणधननिधानकलशः, प्रकटोऽयमवेष्टितश्च खलसर्पः । उपचयमयते सततं सुजनैरुपजीव्यमानोऽपि ॥५७।। मल्लदेवसचिवस्य नंदनः, पूर्णसिंह इति लीलुकासुतः । तस्य नंदति सुतोयमल्हणादेविभूः सुकृतवेश्म पेथडः ॥५८।। अभूदनुपमा पत्नी, तेजः पालस्य मन्त्रिणः । लाबण्यसिंहनामायमायुष्मानेतयोः सुतः ॥५६।। तेजःपालेन पुण्यार्थ, तयोः पुत्रकलत्रयोः । हम्यं श्री नेमिनाथस्य, तेने तेनेदमबुंदे ॥६॥ तेजःपाल इति क्षितींदुसचिवः शंखोज्ज्वलाभिः शिलाश्रेणीभिः स्फुरदिंदुकुन्दरुचिरं नेमिप्रभोमंदिरं । उच्चमंडपमग्रतो जिन (वरा) वासान्द्विपंचाशतं तत्पार्वेषु बलानकं च पुरतो निष्पादयामासिवान् ॥६१।। श्रीमच्चण्ड (प) सम्भवः (सम) भवच्चण्डप्रसादस्ततः, सोमस्तत् प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्रीमल्लूणिगमल्लदेवसचिवश्रीवस्तुपालायास्तेजःपाल समन्विता जिनमतारामोन्नमन्नीरदाः ।।६२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org