________________
४००
येनोर्वीतलमुज्ज्वलं रचयताप्युत्ताम्यतामीय॑या, सर्वेषामिह विद्विषां नहि मुखान्मालिन्यमुन्मूलितं ।।४।। वसुदेवस्येव सुतः, श्रीकृष्णः कृष्णराजदेवोऽस्य ।
मात्राधिकप्रतापो, यशोदया संश्रितो जयति ॥४२॥ इतश्च
अन्वयेन विनयेन विद्यया, विक्रमेण सुकृतक्रमेण च । क्वापि कोऽपि न पुमानुपैति मे, वस्तुपालसदृशो दृशोः पथि ।।४३।। दयिता ललितादेवी, तनयमवीतनयमाप सचिवेन्द्रात् । नाम्ना जयंतसिंह, जयंतमिंद्रात्पुलोमपुत्रीव ॥४४॥ यः शैशवे विनयवैरिणि बोधवन्ध्ये, धत्ते नयं च विनयं च गुणोदयंच सोऽयं मनोभवपराभवजागरूक-रूपो न कं मनसि
चुंबति जैत्रसिंहः।४५) श्रीवस्तुपालपुत्रः, कल्पायुरयं जयंतसिंहोऽस्तु । कामादधिकं रूपं, निरूप्यते यस्य दानं च ॥४६।। स श्रीतेजःपालः, सचिवश्चिरकालमस्तु तेजस्वी येन जना निश्चिताश्चितामणिनेव नंदति ॥४७॥ यच्चाणाक्यामरगुरुमरुद्व्याडिशुक्रादिकानां, प्रागुत्पादं व्यधित भुवनेमंत्रिणां बुद्धिधाम्नां । चक्रेऽभ्यासः स खलु विधिना नूनमेनं विधातुं. तेजःपालः कथमितरथाधिक्यमापैष तेषु ॥४८॥ अस्ति स्वस्ति निकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृतामुर्वीतले पालयन् । आत्मीयं बहु मन्यते न हि गुणग्रामं च कामंदकि
श्चाणाक्योऽपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्य यं ।।४६।। इतश्च--
महं० श्री तेजःपालस्य पत्न्याः श्री अनुपमदेव्याः पितृवंशवर्णनम्प्राग्वाटान्वयमंडनैकमुकुट: श्रीसांद्रचंद्रावतीवास्तव्यः स्तवनीयकीतिलहरिप्रक्षालितक्ष्मातलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org