Book Title: Prabandh Parijat
Author(s): Kalyanvijay Gani
Publisher: K V Shastra Sangrah Samiti Jalor

View full book text
Previous | Next

Page 415
________________ ४०० येनोर्वीतलमुज्ज्वलं रचयताप्युत्ताम्यतामीय॑या, सर्वेषामिह विद्विषां नहि मुखान्मालिन्यमुन्मूलितं ।।४।। वसुदेवस्येव सुतः, श्रीकृष्णः कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो, यशोदया संश्रितो जयति ॥४२॥ इतश्च अन्वयेन विनयेन विद्यया, विक्रमेण सुकृतक्रमेण च । क्वापि कोऽपि न पुमानुपैति मे, वस्तुपालसदृशो दृशोः पथि ।।४३।। दयिता ललितादेवी, तनयमवीतनयमाप सचिवेन्द्रात् । नाम्ना जयंतसिंह, जयंतमिंद्रात्पुलोमपुत्रीव ॥४४॥ यः शैशवे विनयवैरिणि बोधवन्ध्ये, धत्ते नयं च विनयं च गुणोदयंच सोऽयं मनोभवपराभवजागरूक-रूपो न कं मनसि चुंबति जैत्रसिंहः।४५) श्रीवस्तुपालपुत्रः, कल्पायुरयं जयंतसिंहोऽस्तु । कामादधिकं रूपं, निरूप्यते यस्य दानं च ॥४६।। स श्रीतेजःपालः, सचिवश्चिरकालमस्तु तेजस्वी येन जना निश्चिताश्चितामणिनेव नंदति ॥४७॥ यच्चाणाक्यामरगुरुमरुद्व्याडिशुक्रादिकानां, प्रागुत्पादं व्यधित भुवनेमंत्रिणां बुद्धिधाम्नां । चक्रेऽभ्यासः स खलु विधिना नूनमेनं विधातुं. तेजःपालः कथमितरथाधिक्यमापैष तेषु ॥४८॥ अस्ति स्वस्ति निकेतनं तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृतामुर्वीतले पालयन् । आत्मीयं बहु मन्यते न हि गुणग्रामं च कामंदकि श्चाणाक्योऽपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्य यं ।।४६।। इतश्च-- महं० श्री तेजःपालस्य पत्न्याः श्री अनुपमदेव्याः पितृवंशवर्णनम्प्राग्वाटान्वयमंडनैकमुकुट: श्रीसांद्रचंद्रावतीवास्तव्यः स्तवनीयकीतिलहरिप्रक्षालितक्ष्मातलः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448