Book Title: Prabandh Parijat
Author(s): Kalyanvijay Gani
Publisher: K V Shastra Sangrah Samiti Jalor

View full book text
Previous | Next

Page 412
________________ ३६७ धर्मविधाने भुवनच्छिद्र पिधाने विभिन्नसंधाने । सृष्टिकृतानहि सृष्टः, प्रतिमल्लो मल्लदेव (x) स्य ।।११।। नील नीरद कदम्बकमुक्तश्वेत केतु किरणोद्धरणेन । मल्लदेव यशसा गलहस्तोहस्तिमल्लदशनांशुषु दत्तः ॥१२॥ तस्यानुजो विजयते विजितेन्द्रियस्य सारस्वतामृतकृताद्भत हर्षवर्षः । श्रीवस्तु (x) [पा] ल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ।।१३।। विरचयति वस्तुपालश्चुलुक्यसचिवेषु कविषु च प्रवरः ॥ न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ।।१४।। तेजःपालः पालितस्वा (x) मितेज:पुंजः सोऽयं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीयानस्य भ्राता विश्वविभ्रान्तकीतिः ।।१५॥ तेजःपालस्य विष्णोश्च, कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदरकंदरे । १६।। जाल्हू-माऊ-साऊ (x) धनदेवी-सोहगा-वयजुकाख्याः । पद्मलदेवीचेषां, क्रमादिमाः सप्त सोदर्यः ।। १७॥ एतेऽश्व राजपुत्रा, दशरथपुत्रास्त एव चत्वारः ! प्राप्ताः किल पुनरवनावेकोदरवासलोभेन ॥१८॥ अनुजन्मना समेतस्तेजःपा(x) लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं, मधुमासो माधवेनेव ॥१६॥ पंथानमेको न कदापि गच्छे-- दिति स्मृतिप्रोक्तमिव स्मरन्तौ । सहोदरौ दुद्धरमोहचौरे, संभूय धर्माध्वनि तौ प्रवृत्ती ।।२०।। इदं सदा सो (x) दरयोरुदेतु, युगं युगव्यायतदोयुंगधि। युगे चतुर्थेप्यनघेन येन, कृतं कृतस्यागमनं युगस्य ।।२१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448