________________
३६७
धर्मविधाने भुवनच्छिद्र पिधाने विभिन्नसंधाने । सृष्टिकृतानहि सृष्टः, प्रतिमल्लो मल्लदेव (x) स्य ।।११।। नील नीरद कदम्बकमुक्तश्वेत केतु किरणोद्धरणेन । मल्लदेव यशसा गलहस्तोहस्तिमल्लदशनांशुषु दत्तः ॥१२॥ तस्यानुजो विजयते विजितेन्द्रियस्य सारस्वतामृतकृताद्भत हर्षवर्षः । श्रीवस्तु (x) [पा] ल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृतिनां विलुपन् ।।१३।। विरचयति वस्तुपालश्चुलुक्यसचिवेषु कविषु च प्रवरः ॥ न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ।।१४।। तेजःपालः पालितस्वा (x) मितेज:पुंजः सोऽयं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीयानस्य भ्राता विश्वविभ्रान्तकीतिः ।।१५॥ तेजःपालस्य विष्णोश्च, कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदरकंदरे । १६।। जाल्हू-माऊ-साऊ (x) धनदेवी-सोहगा-वयजुकाख्याः । पद्मलदेवीचेषां, क्रमादिमाः सप्त सोदर्यः ।। १७॥ एतेऽश्व राजपुत्रा, दशरथपुत्रास्त एव चत्वारः ! प्राप्ताः किल पुनरवनावेकोदरवासलोभेन ॥१८॥ अनुजन्मना समेतस्तेजःपा(x) लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं, मधुमासो माधवेनेव ॥१६॥ पंथानमेको न कदापि गच्छे-- दिति स्मृतिप्रोक्तमिव स्मरन्तौ । सहोदरौ दुद्धरमोहचौरे, संभूय धर्माध्वनि तौ प्रवृत्ती ।।२०।। इदं सदा सो (x) दरयोरुदेतु, युगं युगव्यायतदोयुंगधि। युगे चतुर्थेप्यनघेन येन, कृतं कृतस्यागमनं युगस्य ।।२१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org